Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 10
________________ सम्पा दकीयम् श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 1 // 8 // श्रीधर्माऽध्ययनं- तस्मिन् पण्डितवीर्यं धर्मं प्रति यदुधमं विधत्ते अतो धर्मः प्रतिपाद्यते / दशमं समाध्यध्ययनं- तस्मिन् अविकलो धर्मः समाधौ सति भवतीत्यभिहितम् / एकादशं मार्गाध्ययनं- तस्मिन् समाधिर्ज्ञानदर्शनरूपस्तत्स्वरूपश्च मार्ग इत्यतो मार्ग:प्ररूपितः। द्वादशं समवसरणाध्ययनं- तस्मिन् कुमार्गव्युदासेन सम्यग्मार्गतां प्रतिपद्यते अत: कुमार्गस्वरूपनिरूपणा। त्रयोदशं याथातथ्याध्ययनं- तस्मिन् कुमार्गमतानि निरूपितानि तन्निराकरणंचाकारितच्च याथातथ्येन भवतीति तदिह प्रतिपाद्यते। चतुर्दशं ग्रन्थाऽध्ययनं-तस्मिन्याथातथ्यमिति सम्यक्चारित्रमभिहितम्, तच्च बाह्याभ्यन्तरग्रन्थपरित्यागाद्भवतीति तत्त्यागः प्रतिपाद्यते / पञ्चदशं आदानीयाध्ययनं- तस्मिन् ग्रन्थपरि-8 त्यागाच्चायतचारित्रो भवति साधुस्ततो यथासंपूर्णामायतचारित्रतांप्रतिपद्यते तत्प्रतिपाद्यते। षोडशंगाथाऽध्ययनं- तस्मिन् पञ्चदशष्वध्ययनेषु ल येऽर्था अभिहिता विधिप्रतिषेधद्वारेण तान् तथैवाचरन् साधुर्भवतीत्युपदेशः / अहमपि तदुपदेशद्वारेण गुणवान् साधुर्भवेयमिति प्रार्थना। पू.श्रुतोपासकमुनिराजश्रीजम्बूविजयेन संशोधिताः पाठा गृहीताः सन्ति मुद्रिताश्च पाठा: टीप्पण्यां (मु०) संज्ञया स्थापिताः सन्ति। मुनिपुण्यकीर्तिविजयोगणिः। श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्रीपालनगर, 12 जमनादास मेहता मार्ग, वालकेश्वर, मुंबई - 400006. विक्रम सं०२०६३ वीर सं० 2533

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 520