Book Title: Sutrakritang Sutra Dipika Dwitiya Vibhag Author(s): Harshkulgani Publisher: Jinshasan Aradhana Trust View full book textPage 8
________________ X स्यात् किं भूता? बहूदका, सियंते बधन्ते यस्मिन् असौ सेय: कर्दमः स यस्यां बहु, बहुपुष्कला- बहुसम्पूर्णा, लब्धो नाम अनुगतो अर्थो यया सा लब्धार्था,पुंडरिकिणी- श्वेतपद्मप्रचुरा, प्रासादिका निर्मला, दर्शनीया- शोभना, अभित: सर्वत: रूपाणि हंसचक्रादीनि यस्यां सा, तथा प्रतिरूपा -प्रतिबिंबवती, निर्मलत्वात् तस्यां सर्वत्र प्रतिबिंबानि वीक्ष्यन्ते ॥२॥ तीसे णं पुक्खरिणीए तत्थ तत्थ देसे तहिं तहिं बहवे पउमवरपुंडरीआ बुइआ अणुपुवट्ठिआ ऊसिआ रुइला वण्णमंता गंधमंता रसमंता फासमंता पासादीआ दरिसणिजा अभिरूवा पडिरूवा ॥३॥ 'तीसे णं त्ति' तस्यां पुष्करिण्यां तत्र तत्र इति पुण्डरीकै: व्याप्तिम् आह, देशे देशे इत्यनेन तु एकैकप्रदेशे प्राचुर्यमाह, तस्मिन् तस्मिन् इत्यनेन तु नास्त्येव असौ प्रदेशो यत्र तानि न सन्ति इति, अथवा अत्यादरज्ञापनाय एकार्थान्येव एतानि त्रीणि पदानि, तेषु पुष्करिण्याः सर्वप्रदेशेषु बहूनि पद्यानि एव वराणि पुंडरीकाणि श्वेतशतपत्राणि उक्तानि, आनुपूर्येण विशिष्टरचनया स्थितानि, ऊच्छ्रितानि -पङ्कजले अतिलघ्य उपरि व्यवस्थितानि, रुचिं- कान्तिं लातीति रुचिलानि दीप्तिमन्ति, शोभनवर्ण-गंध-रसस्पर्शवन्ति, प्रासादीयानि, दर्शनीयानि, अभिरूपाणि, प्रतिरूपाणि ॥२॥ तीसेणं पुक्खरिणीए बहुमज्झदेसभागे एणं महं पउमवरपुंडरीए बुइए अणुपुव्वट्ठिए ऊसिते रुइले (१) अस्मिन अध्ययने सर्वत्र JAM प्रतीष 'पंडरीओ' इत्यस्यस्थाने 'पोंडरीओ' पुंडीए इत्यस्य स्थाने पोंडरीए तथा पुंडीअं इत्यस्य स्थाने पोंडरीअं ज्ञातव्यं (२) अस्मिन् ।Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 300