Book Title: Sulabh Charitrani Part 01
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 7
________________ पुरोवचनम्...! पुष्पमेकम्भवेद् वानेकं, तत्कदाप्यात्मीयकर्त्तव्यतः पराङ्मुखम् नैव भवति, स्वीयपरिमलं सदा सर्वतः प्रसारयत्येव यावन्निजास्तित्वम् । महापुरुष-गुणगीत्यव-सरेऽप्येवम्, रे तेनाप्यधिकमवश्यमाख्येयमेव। अन्वात्मीयास्तित्वमपि स्वगुणगरिम्णस्सुगन्धन्ते तु सदा सर्वत्र प्रसार यन्त्येव। पुष्पपरिमलं खलु परहेतवे, धूपसुगन्धमपि परस्मै, चन्दनशैत्यमपि परोपकाराय, नदीवहनमप्यनात्मीयाय.... तथैव महताञ्जीवनमपि परार्थाय-परमार्थायैव सञ्जातमस्ति ! साम्प्रतकाले यदा-मनो-मानव-तद्गृहाणि लघूभवन्ति तदा भूतपूर्वाणामेषाम्महर्षीणां संस्मरणा-गुणगीतिश्च नूनङ्किञ्चिदधिकर्णमाचष्टे एव । कृतेस्सृष्टिः यथा-विकीर्णेभ्यः पुष्पेभ्यस्सकाशाद्राशीभूतम्पुष्पवृन्दम्रमणीयतममाभाति स्वप्रभावम्प्राविर्भावयति । तथा-महापुरुषाणाञ्जीवनकवनानि बहुशो बहुभिः कृतिभिः पठितानि, श्रुतानि चाथाध्ययनपद्धत्या एकस्मिन्सूत्रे (ग्रन्थे) पठन-पाठनार्थञ्चापि किञ्चित्करणीयमेव।

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 246