________________
पुरोवचनम्...! पुष्पमेकम्भवेद् वानेकं,
तत्कदाप्यात्मीयकर्त्तव्यतः पराङ्मुखम् नैव भवति, स्वीयपरिमलं सदा सर्वतः प्रसारयत्येव यावन्निजास्तित्वम् । महापुरुष-गुणगीत्यव-सरेऽप्येवम्, रे तेनाप्यधिकमवश्यमाख्येयमेव।
अन्वात्मीयास्तित्वमपि स्वगुणगरिम्णस्सुगन्धन्ते तु सदा सर्वत्र प्रसार यन्त्येव।
पुष्पपरिमलं खलु परहेतवे, धूपसुगन्धमपि परस्मै, चन्दनशैत्यमपि परोपकाराय, नदीवहनमप्यनात्मीयाय....
तथैव महताञ्जीवनमपि परार्थाय-परमार्थायैव सञ्जातमस्ति ! साम्प्रतकाले यदा-मनो-मानव-तद्गृहाणि लघूभवन्ति तदा भूतपूर्वाणामेषाम्महर्षीणां संस्मरणा-गुणगीतिश्च नूनङ्किञ्चिदधिकर्णमाचष्टे एव ।
कृतेस्सृष्टिः यथा-विकीर्णेभ्यः पुष्पेभ्यस्सकाशाद्राशीभूतम्पुष्पवृन्दम्रमणीयतममाभाति स्वप्रभावम्प्राविर्भावयति ।
तथा-महापुरुषाणाञ्जीवनकवनानि बहुशो बहुभिः कृतिभिः पठितानि, श्रुतानि चाथाध्ययनपद्धत्या एकस्मिन्सूत्रे (ग्रन्थे) पठन-पाठनार्थञ्चापि किञ्चित्करणीयमेव।