Book Title: Stuti Tarangini Part 02
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
________________
श्रीने मिजिनस्तुतिः
: ३७१ :+[९०९
त्यक्त्वा चोहामधामा सजलजलधरश्यामल स्निग्धकायच्छायः पायादपायादुरुदुरितवनच्छेदनेमिः सुनेमिः ॥ १ ॥ दातारो मुक्तिलक्ष्मीं मदमदनमुखद्वेषिणः सूदितारखातारः पापपङ्कात्रिभुवनजनतां स्वश्रिया भासितारः । स्रष्टारः सद्विधीनां निरुपमपरमज्योतिषां वेदितारः, शास्तारः शस्तलोकान्सुगतिपथरथं पान्तु वः तीर्थनाथाः (१) ॥२॥ पीयूषौपम्यरम्यां शुचिपदपदवीं यस्य माधुर्यधुर्यां, पायं पायं व्यपायं भुवि विबुधजनाः श्रोत्रपात्रैः पवित्रैः । जायन्ते जायमुक्ता विगतमृतिरुजः शाश्वताः नन्दमग्नाः, सोऽयं श्रीधामकामं जयति जिनवचः क्षीरनीराब्धिनाथः ॥ ३ । या पूर्व विप्रपत्नी सुविहितविहितप्रौढदानप्रभाव - प्रोन्मीलन्पुण्यपूरैरमरमहिमा शिश्रिये स्वर्निवारम् । सा श्रीमन्नेमिनाथप्रभुपदकमलोत्सङ्गभृङ्गारभृङ्गी, विश्वाऽम्बा वः श्रियेऽम्बा विपदुदधिपतद्दत्ते हस्ताऽवलम्बा || ४ |
श्री पार्श्वजिनस्तुतयः ।
१
निष्ठुरकमठमहासुर - विदलितमानं प्रनष्टकर्म रिपुम् । पार्श्व नतोऽस्मि शिरसा, सम्प्राप्तमनन्त सौख्यपदम् येषां नामग्रहणात्प्रलयं, यान्तीह सर्वदुरितानि । ते नो दिशन्तु भद्रं, जिनेन्द्रचन्द्राः सदा विपुलम्
Jain Education International
For Private & Personal Use Only
॥ १ ।
॥ २ ।
www.jainelibrary.org
Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472