SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ श्रीने मिजिनस्तुतिः : ३७१ :+[९०९ त्यक्त्वा चोहामधामा सजलजलधरश्यामल स्निग्धकायच्छायः पायादपायादुरुदुरितवनच्छेदनेमिः सुनेमिः ॥ १ ॥ दातारो मुक्तिलक्ष्मीं मदमदनमुखद्वेषिणः सूदितारखातारः पापपङ्कात्रिभुवनजनतां स्वश्रिया भासितारः । स्रष्टारः सद्विधीनां निरुपमपरमज्योतिषां वेदितारः, शास्तारः शस्तलोकान्सुगतिपथरथं पान्तु वः तीर्थनाथाः (१) ॥२॥ पीयूषौपम्यरम्यां शुचिपदपदवीं यस्य माधुर्यधुर्यां, पायं पायं व्यपायं भुवि विबुधजनाः श्रोत्रपात्रैः पवित्रैः । जायन्ते जायमुक्ता विगतमृतिरुजः शाश्वताः नन्दमग्नाः, सोऽयं श्रीधामकामं जयति जिनवचः क्षीरनीराब्धिनाथः ॥ ३ । या पूर्व विप्रपत्नी सुविहितविहितप्रौढदानप्रभाव - प्रोन्मीलन्पुण्यपूरैरमरमहिमा शिश्रिये स्वर्निवारम् । सा श्रीमन्नेमिनाथप्रभुपदकमलोत्सङ्गभृङ्गारभृङ्गी, विश्वाऽम्बा वः श्रियेऽम्बा विपदुदधिपतद्दत्ते हस्ताऽवलम्बा || ४ | श्री पार्श्वजिनस्तुतयः । १ निष्ठुरकमठमहासुर - विदलितमानं प्रनष्टकर्म रिपुम् । पार्श्व नतोऽस्मि शिरसा, सम्प्राप्तमनन्त सौख्यपदम् येषां नामग्रहणात्प्रलयं, यान्तीह सर्वदुरितानि । ते नो दिशन्तु भद्रं, जिनेन्द्रचन्द्राः सदा विपुलम् Jain Education International For Private & Personal Use Only ॥ १ । ॥ २ । www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy