Book Title: Stuti Tarangini Part 02
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
________________
श्रीचन्द्रप्रभयुगादिजिनस्तुतिः
: ३६९ :+[९०७]
विनताऽङ्गजमाऽऽश्रिता सदा, प्रतिचक्राऽस्तु सतां विभूतये । विफलीकृतशत्रु मण्डलं दधती चक्रम-योमयं शये ।
॥ ४ ॥
श्रीवागडुद्रमण्डन श्री चन्द्रप्रभयुगादिजिनस्तुतिः । १ ( शार्दूलविक्रीडितम् ) धर्म कर्तुमहो महोत्सवमिव द्वेधापि सार्वोदितं, बाह्याऽभ्यन्तरबैरिवारमतिदुर्वारं विजेतुं द्रुतम् | श्रीचन्द्रप्रभतीर्थ नायकमथ श्रीमद्युगादीश्वरं, सेवे सातिशयं पुराणमनिलं सद्वागडुद्रप्रभुम् दुर्जेयोऽपि जगज्जनैर्जिन वरैर्यैर्मोहराजो जवाजिग्ये प्राप्यतिशायिनी च पदवी विश्वार्हणीया सताम् । त्रैलोक्यैकविलोकनाः शिवपुरीसार्थैकसम्मीलना:, भूमीमण्डलमण्डनाः कलिमलप्रक्षालनास्ते श्रिये या जैनेन्द्रवच: प्रदीपरुचयः सम्यग्दृशामेव सद्बोधोद्योतकराः समं त्रिभुवनेऽप्याशाः प्रकाशाः पुनः । नो दोषोदयतामसाश्रय समस्नेहोदयाः कुत्रचित्, ता मोदेन सदाशये शिवपथज्ञानाय कुर्वीमहि श्री चन्द्रप्रभदेव सेवकतया येऽत्र श्रुतदेवताः । क्षेत्राधीशविनायका अपि भृशं सम्यग्दृशां वत्सलाः । ये चान्येऽपि सुरा जिनप्रवचनप्रोल्लासनालालसाः, सन्त्वस्मत्सुकृतान्तरायहतये सम्पत्तये श्रेयसाम्
२४
Jain Education International
For Private & Personal Use Only
॥ १ ॥
॥ २ ॥
॥ ३ ॥
॥ ४ ॥
www.jainelibrary.org
Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472