Book Title: Stuti Tarangini Part 02
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
________________
: ३८६ :+[९२४]
स्तुतितरङ्गिणी भा. २ द्वाविंशतितमतरङ्गः पार्श्वनाथोऽन्तरिक्षाख्योऽन्तरिक्ष वर्तनात् श्रुतः । कृपालुः सर्वसाम्राज्यो, गजराज्यर्चितोऽस्तु मे ॥५१ ॥ माणिक्यस्वामिनाम्ना यः, कुल्पाके वृषभप्रभुः। आदिधर्मप्रणेता स, मह्यं रातु जिनः शिवम् ॥ ५२ ॥ अजारापार्श्वनाथोऽसौ, सांयान्त्रिकभयापहः । भवाब्धेस्तारकः पुंसां, ध्रुवं मां तारयिष्यति ॥ ५३ ॥ दीवस्थो नवलक्षेति, ख्यातः पार्श्वजिनेश्वरः । नागोद्धारकदेवो यः, स उद्धरतु मां भवात् ॥ ५४ ॥ इलादुर्गस्थितः शान्ति-नाथोऽनाथसनाथकृत् ।। एतस्य तीर्थरूपत्वं, यश्चक्रे शरणं स मे साबलीपोशिनाभानुः, पार्श्वनाथो जिनेश्वरः । तीर्थकृन्मोहति मिरं, हियात् मे शरणैषिणः कावीतीर्थ स्थितौ वन्दे, धर्मर्षभजिनेश्वरौ। जहतुर्यों जगत्तापं, तो मे दत्तां शिवालयम् ।। ५७ ॥ पार्श्वनेमिमहावीरा:, जिनेन्द्रा भवपारदाः । पोशीनायां नगयां ते, कल्याणं वितरन्तु नः ॥ ५८ ॥ श्रीतीर्थ लोद्रवानाम, प्रसिद्धं पार्श्वनाथतः । स्मरामि मानसे नित्य-ममृतस्थानसिद्धये ॥ ५९॥ नन्दिपूरस्थं महावीरं, साक्षादिव जिनेश्वरम् । दृष्टं मया पूर्व काले -ऽधुना बन्दे हृदि स्थितम् मामे बामणवाडे च, महावीरं सदाऽऽश्रये । यस्मात् परं शिवं लब्ध्वा, सदानन्दो भवाम्यहम् ॥ ६१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472