Book Title: Stuti Tarangini Part 02
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

Previous | Next

Page 448
________________ स्तुति चतुर्विंशतिकादि. : ३८५ :+[९२३] चारूपे तीर्थरूपं तं, पार्श्वनाथं नमाम्यहम् । देवीकृतो येन नागो, मन्त्रस्य श्रावणेन हि ॥ ४० ॥ शेरीमापार्श्वनाथो यः, त्रयोविंशो जिनेश्वरः । त्रिविंशतिविकाराणां, हर्ता हृत्पागोऽस्तु मे ॥४१ ॥ भोयण्यां नूतने तीथे, मल्लिनाथो जिनेश्वरः । कर्ममल्लविद्याताय, मल्लतां विदधातु मे ॥४२॥ मामे पानमराख्ये श्री-महावीरं भजाम्यहम् । प्रदत्तं शासनं येन, तस्मै मेऽस्तु नमो नमः वामजे शान्तिनाथस्या-द्भुतं बिम्बं नमाम्यहम् । गर्भस्थेनाऽपि येनाऽस्ति, कृता शान्तिर्जगत्तले ॥४४ ॥ सुमतेर्जिननाथस्य, चमत्कारविधायिनी । मातरे या स्थिता मूर्तिः, साऽस्तु कल्याणकारिणी ।। ४५ ।। सुधर्मस्वामिनः काले, मूर्तिोऽस्ति प्रतिष्ठिता । भद्रेसरे श्रीपार्थस्य, सा कल्याणं करोतु मे देवं झगडीयाधीशं, युगादीशं जिनेश्वरम् । भजामि भावतो नित्यं, रातु मुक्तिरमा मम ॥४७॥ चम्पायां वासुपूज्यस्य, निर्वाणमभवत्ततः। जातं तीथं महत्तेन, सेव्यं तद्भव्यजन्तुभिः ॥४८॥ अपापायां महावीरः, प्रापन्मुक्तिपुरं वराम् । पापानाम्नी ततो जाता, चित्रं सा तीर्थभूरभूत ॥४९ ।। सम्मेतशिखरे सिद्धा-जिनानां विंशतिर्यतः । महतोऽपि महत्तीर्थ-मतः पातु जगत्रयम् ॥५०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472