Book Title: Stuti Tarangini Part 02
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
________________
स्तुति चतुर्विंशतिकादि
: ३८३ :+[९२१] मल्लिनाथो महामल्लो, मोहमल्लविनिर्जयात् । मल्लीनां मोहवल्ली स, भेत्तुमालम्बनो भवेत् ॥ १९ ॥ अपूर्वः सुव्रतश्चन्द्रः, कूर्माकोऽप्य कलकितः । कुतर्कतमसाऽप्रस्तो-ऽक्षयो रक्षतु मां सदा ॥२०॥ यस्य पादाब्जभक्तानां, विविधानि सुखानि हि । ऐहिकाऽऽमुष्मिकानि स्युः, जीयात् स नमिराट् जिनः ॥२१॥ जिनो चिन्ताहरो नेमि-श्चिन्तामणिरिवाऽऽत्मनः । भवभ्रान्तिहरो भूया-च्छाश्वतस्थानदानतः ॥ २२ ॥ आश्वसेनि प्रभुं पाव, वामेयं पार्श्वसेवितम् । संस्तुवे सिद्धिलाभायो-द्विघ्नोऽहं भवसागरात् ॥ २३ ॥ शासनं येन दत्तं मे, बोधिबीजप्रदायकम् । स वीरो मम चित्तस्थो, बोभूयाद्धि भवे भवे ॥२४ ॥ विहरन्ती जिनानां या, विंशतिः शंसतीह याम् । मुक्तिपूःसरणी सा मे, त्राणं भूयाद्भवे भवे ॥ २५ ॥ जिनानां शतसप्तत्यो-स्कृष्टया भवपाततः। अरक्ष्यन्त जना सा मां, रक्षताद्भवपाततः ॥ २६ ॥ सिद्धक्षेत्रमनन्तानां, सिद्धिस्थानं महोत्तमम् । जैनशासनशृङ्गारं, हृद्धार स्तौमि तन्मुदा ॥ २७ ॥ अर्बुदाचलतीर्थे श्री-ऋषभादिजिनेश्वराः । कुर्वन्तु मनलं नित्यं, सिद्धाः मङ्गलमूर्तयः ॥ २८॥
१ मत्-लीनाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472