SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ स्तुति चतुर्विंशतिकादि : ३८३ :+[९२१] मल्लिनाथो महामल्लो, मोहमल्लविनिर्जयात् । मल्लीनां मोहवल्ली स, भेत्तुमालम्बनो भवेत् ॥ १९ ॥ अपूर्वः सुव्रतश्चन्द्रः, कूर्माकोऽप्य कलकितः । कुतर्कतमसाऽप्रस्तो-ऽक्षयो रक्षतु मां सदा ॥२०॥ यस्य पादाब्जभक्तानां, विविधानि सुखानि हि । ऐहिकाऽऽमुष्मिकानि स्युः, जीयात् स नमिराट् जिनः ॥२१॥ जिनो चिन्ताहरो नेमि-श्चिन्तामणिरिवाऽऽत्मनः । भवभ्रान्तिहरो भूया-च्छाश्वतस्थानदानतः ॥ २२ ॥ आश्वसेनि प्रभुं पाव, वामेयं पार्श्वसेवितम् । संस्तुवे सिद्धिलाभायो-द्विघ्नोऽहं भवसागरात् ॥ २३ ॥ शासनं येन दत्तं मे, बोधिबीजप्रदायकम् । स वीरो मम चित्तस्थो, बोभूयाद्धि भवे भवे ॥२४ ॥ विहरन्ती जिनानां या, विंशतिः शंसतीह याम् । मुक्तिपूःसरणी सा मे, त्राणं भूयाद्भवे भवे ॥ २५ ॥ जिनानां शतसप्तत्यो-स्कृष्टया भवपाततः। अरक्ष्यन्त जना सा मां, रक्षताद्भवपाततः ॥ २६ ॥ सिद्धक्षेत्रमनन्तानां, सिद्धिस्थानं महोत्तमम् । जैनशासनशृङ्गारं, हृद्धार स्तौमि तन्मुदा ॥ २७ ॥ अर्बुदाचलतीर्थे श्री-ऋषभादिजिनेश्वराः । कुर्वन्तु मनलं नित्यं, सिद्धाः मङ्गलमूर्तयः ॥ २८॥ १ मत्-लीनाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003303
Book TitleStuti Tarangini Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy