________________
स्तुतितरङ्गिणी भा. २ द्वाविंशतितमतरङ्गः
: ३८४ :+[९२२]
अष्टापदे शिवपदे, तीर्थे प्रापाऽऽदिनायकः । सिद्धि सदातनीं यत्र, तत् पुनातु जगत्रयम् नेमिनाथ जिनाधीश - कल्याणत्रयपावनम् । रैवताद्रिवरं तीर्थ, जेजीयाज्जगतीतले श्रेणीबद्धा जिनेशा मे, भूरिशो हर्षदावकाः । तीर्थे जेसलमेराख्ये, पावयन्तु मनो मम वरकाणास्थ पार्श्वस्तः, भवपाशविनाशकः । विनाश्य सर्वकर्माणि ददातु शिवसद्म नः चैत्वं राणकपूरनं, शतशः स्तम्भमण्डितम् । ऋषभादिर्जिनैर्दी, तीर्थं जयतु भूतले यादवीयजरानाशे, नेमिनाथ प्रकाशितः । श्रीशङ्केशः पार्श्वनाथो, देयाच्छाश्वत सम्पदम् स्वयम्भूपार्श्वनाथेन, भूषितं चैत्यमुन्नतम् । कापड क्षेत्रमध्यस्थं, कल्याणं वितनोतु नः तारङ्गे गगनस्पर्द्वि, कुमारनृपकल्पितम् । अजिताऽलङ्कृतं चैत्यं, अजितं विदधातु माम् स्तम्भनः पार्श्वनाथो यो - ऽभयदेवविरोगकृत् । स्तम्भनग्रामवास्तव्यो मेऽघं हन्तु जिनेश्वरः पार्श्व पत्तनगं वन्दे, प्रभुं पञ्चासराऽऽह्नयम् । रमामाह्नयितुं मुक्तिं, शीघ्रमात्मगृहाङ्गणे अद्भुतं तीर्थरूपं श्री - पार्श्व नत्वा गुणालयम् । चारूपे चित्तहृद्देव-मानन्दं प्राप्नुवं नवम्
"
Jain Education International
For Private & Personal Use Only
॥ २९ ॥
॥ ३० ॥
॥ ३१ ॥
॥ ३२ ॥
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
॥ ३६ ॥
॥ ३७ ॥
॥ ३८ ॥
॥ ३९ ॥
www.jainelibrary.org