________________
: ३८२ :+[९२०]
स्तुतितराङ्गणा भा. २ द्वाविशाततमतरङ्गः
कृतं येन महत्तीर्थ, तारकं भववारिधेः पुष्पदन्तं जिनं याचे, मुक्तिमार्ग सनातनम् । येन प्रकाशितो योऽस्ति, स दातुं क्षमते हि तम् ॥ ९ ॥ शीतलो हिमवत् शीतः, दग्धुं कर्मकृषि क्षमः । आराद्धः कर्मनाशाय, वासाय शिवसद्मनः ॥ १० ॥ श्रेयांसः श्रेयसे नित्यं, ध्येयो गेयो गुणाम्बुधिः।। लाभाय गुणरत्नानां, भूयान्मे स जिनोऽद्भुतः ॥११ ।। वासुपूज्यो जिनो मे स्यात् , शरणं मृत्युबारकः । मृत्युंजयो न मन्त्रोऽन्यः, यन्नामस्मरणाद्यतः ॥ १२ ॥ विमलं विमलं सेवे, विमलीकर्तुमात्मनः । विमलस्थानसम्प्राप्त्य, साधनं स यतो महत् अनन्तं कर्मणो भारं, अनन्तो हरति क्षणात् । जिनस्तं स्तौमि भक्त्याऽहं, सर्वदेवशिरोमणिम् ॥१४॥ धर्मो धर्मोपदेशेन, धर्ममूचे चतुर्विधम् । सोऽयं स पातु जिनो मां द्राग् , भवदुःखाद्भयङ्करात् ।। १५ ।। शान्तिः शान्तिकरो गर्भ, गतोऽपि यो जिनेश्वरः । द्रव्यभावमयी शान्ति, देयाश्चक्रधरस्स मे ॥१६॥ चक्रभृत् कुन्थुनाथो यः, त्यक्त्वा षट्खण्डभारतम् । प्राज्यं साम्राज्यमात्मीयं, ललौ स जयताजिनः ॥१७॥ भास्करोऽरप्रभुश्चक्री, वनकर्मतमोहरः । शकचक्राचिंताङ्यब्जो, जिनो जीयात् सदा स तु ॥ १८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org