Book Title: Stuti Tarangini Part 02
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

Previous | Next

Page 438
________________ श्रीषद्धमानजिनस्तुतयः : ३७५ :+[९१३] जिनवरेण जयाय हितोदितं, गणधरेण धिया गुरुगुम्फितम् । नमतु तन्मनसा जनसन्तती, रसमयं समयं समयं प्रति ॥३॥ रणझणत्पदनुपूरपेशला, वदनमण्डितशीतलभाकला । सकलसङ्खसुखाय विनोदिता, भवतु भासनशासनदेवता ॥४॥ २ ( उपजातिः) श्रीवर्द्धमानाऽभिधतीर्थराज-पदारविन्दं विधिना निषेवे । सद्धर्मलक्ष्मीवर केलिगेहं, सदा सदाऽऽनन्दपदं सतां तु ॥ १ ॥ असो जिनौघः प्रददातु नित्यं, भव्याङ्गिनां भक्तिमतामभीष्टम् । यदेशनावारिदवर्षणेन, सद्धर्मशाखी नवपल्लवः स्यात् ॥२॥ श्रीजैनसिद्धान्तमपारभद्रं, ध्यायामि तत्वार्थयुतं पवित्रम् । सम्यक्तया निर्वृतिशर्मकार-मन्तःसमाधाननिदानमेव ॥ ३ ॥ श्रीवीरतीर्थेशपदाऽनुरक्तः, सर्वानुभूतिः सततं श्रिये स्तात् । सिद्धायिका शासनदेवता च, धर्मार्थिनां धर्मधुरन्धराणाम् ॥४॥ नताऽशेषलेखं कृतद्वेषपेष, जगत्तोषपोषं लसदोषमोषम् । अयोषं सयोषं विनिर्धूतरोषं, नमस्यामि वीरं धराधीशधीरम् ॥१॥ प्रशस्तप्रसादं समस्तप्रसाद, समस्तप्रसादं सुगम्भीरनादम् । स्तुमस्त्वामुदारं महसापदारं, महत्तापदारं जिनस्तोममारम् ॥२॥ 1 प्रमादम्। 2 प्रमाद । 3 प्रमादम् । 4 तमस्तोमदारम् । । महत्पापदारम् । 6 महत्पापदारम् । 7 सारम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472