Book Title: Sirisiriwal Kaha Part 01
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan
View full book text
________________ इत्तो अ कोऽवि पुरिसो सुरसरिसो चारुरूवनेवत्यो / सुपसन्ननयणवयणो उत्तमहयरयणमारूढो // 481 // बहपरिअरपरिओ पत्तो कुमरस्स गुडरवारं। पिक्खेइ नाडयं जा तो सो कुमरेण आहओ / / 482 // सो कयकुमरपणामो आसणदाणेण लद्धसम्माणो / विणयपरो वीसत्थो उवविहो कुमरपासंमि // 483 // इतश्च कोऽपि पुरुषः सुरसदृशो-देवतुल्यः पुनः रूपं--आकृतिः नेपथ्यं-वेषः चारुणी--मनोज्ञे रूपनेपथ्ये यस्य सः पुनः नयने च वदनं च नयनवदनं, सुप्रसन्नं नयनवदनं- नेत्रमुखं यस्य सः पुनः उत्तम हयरत्न-अश्वरत्नं आरूढः // 481 // पुनः बहुपरिकरेण-बहुपरिवारेण परिकरितः- परिवृतः ईदृशः कुमारस्य गुड्डरद्वार-पटावासद्वारं प्राप्तः सन् यावन्नाटकं प्रेक्षते तावत् कुमारेण स पुरुषः आहूतः-स्वपार्श्व आकारितः॥४८२॥ स पुरुषः कृतः कुमारस्य प्रणामो-नमस्कारो येन सः तथा आसनदानेन लब्धः सन्मानो येन सः, कुमारेणासनं दापितं तेन प्राप्तसन्मान ४८१-अत्र पुरुषे तस्मिन् चारुरूपनेपथ्यत्वेन सुप्रसन्ननयनपदनत्वेन सुरसादृश्यवर्णनादुपमालङ्कारः, उत्तरार्द्धऽनुप्रासश्चापि द्रष्टव्यः / / ४८२-अत्र परिवारपरिखुनत्वविशेषणात् नाटकं प्रति सानुरागताभिव्यक्तिः / ४.३-अत्र णकारस्यासदावृत्त्या वृत्यनुप्रासोऽलङ्कारः।

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250