Book Title: Sirisiriwal Kaha Part 01
Author(s): Ratnashekharsuri, Bhanuchandravijay
Publisher: Yashendu Prakashan

View full book text
Previous | Next

Page 225
________________ बझं तहाभिंतर भेअमेअं, कयाइदुब्भेअकुकम्मभेअं। दुक्खक्खयत्थं कयपावनासं, तवं तवहागमिअं निरासं // 572 / / एयाई जे केवि नवप्पयाई, आराहयंति टफलप्पयाई। लहंति ते सुक्खपरंपराणं, सिरिं सिरीपालनरेसरुव्व // 573 // . भो भव्या ! यूयं एतद्बाह्य तथाऽभ्यन्तरभेदं तपस्तपत, कीदृशमेतत् ?-अतिशयेन दुर्भेदानि यानि कुकर्माणि तेषां भेदो-विदारणं कृतो येन तत् कृत०, अत एव कृतः पापनाशो येन तत्कृतपापनाश, पुनः कीदृशं ?-आगमे भवं आगमिकं, तथा निर्गता आशा-वाञ्छा यस्मात्तन्निराशं, इदृशं तपस्तपत, किमर्थ| मित्याह-दुःखक्षयार्थम् / / 572 / / ये केपि जीवा एतानि इष्टफलप्रदानि-वाञ्छितफलदायकानि नव पदानि आराधयन्ति ते श्रीपालनरेश्वर इव सुखपरम्पराणां श्रियं-लक्ष्मीम् लभन्ते-प्राप्नुवन्ति // 573 // ५७२-तपसः कृतपापनाशकथनात् पूर्वोपार्जित कर्मनाशोऽपि व्यज्यते / 573 अत्र नवपदाराधकजने श्री श्रीपालनरेश्वरसादृश्यवर्णनादुपमालङ्कारः, किञ्च "पयाई पयाई पयाई" इत्यत्र वृत्त्यनुप्रासा, उत्तरा? पुनः "परं पराणां” सिरिं सिी इत्यत्र छेकानुप्रासद्वयमवसेयम् / छेकानुप्रासोपमयोरेकवाचकानु प्रवेश सङ्करोऽपि द्रष्टव्यो लङ्कारः /

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250