Book Title: Siddhartha
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 13
________________ कर्तव्यतयोचितावास्ताम् ?' ' तथा सोऽप्यात्मा कुत्राऽन्वेष्टव्यः ? स कुत्र वा वसति स्म ? कुत्र वा तस्य शाश्वतं स्पन्दनं भवति स्म ऋते प्रत्येकं मनुष्यस्याऽऽन्तरतमं स्वम् ?' ‘परन्त्विदमप्यान्तरतमं स्वं कुत्र विद्यते ? किं वाऽस्ति तत् ? तन्नहि केवलं मांसमस्थि वा, नाऽपि च विचार: संवेदनं वा । एतदेव ननु पण्डितैरुपदिष्टमासीत् । परन्तु तर्हि स कुत्र विद्यमान आस्ते? तं ज्ञातुं शोधयितुं वाऽन्यः को वा पन्था स्यात् ? न कश्चिदपि तं दर्शितवान् ज्ञातवान् वा न तस्य पिता, न ब्राह्मणाः, नैव च पवित्रा मन्त्राः स्तोत्राणि वा' । 'ब्राह्मणाः सर्वमपि जानन्ति तेषां शास्त्रेषु च सर्वमपि ज्ञापितमस्ति । आम्, सर्वमपि लिखितमस्ति तत्र । तेषां गतिः सर्वत्राऽप्रतिहताऽऽसीत् - जगतः सृष्टिः, वाच उत्पत्तिः, अन्नं, श्वासोच्छ्वासाः, इन्द्रियाणां समारचनं, देवानां कार्याणीत्यादिषु सर्वत्र । तैर्हि सङ्ख्यातीतानि वस्तूनि ज्ञातानि । एवं सत्यपि यदि तैरेकमेव परमं वस्तु नैव ज्ञातं तर्हि सर्वेषामप्येतेषां वस्तूनां ज्ञानस्य किं वा मूल्यं स्यात् ?' 'वेदानां बहूनि सूक्तानि विशेषतश्च सामवेदस्योपनिषद इदमान्तरतमं तत्त्वमेव वर्णयन्ति स्म । “आत्मैव जगदिदं सर्वम्" इति तत्र वर्णितमस्ति । “मनुष्यः सुषुप्तावन्तःकरणं प्रविश्याऽऽत्मन्येव निवसति' इत्यपि तत्र कथितमस्ति । एतानि सूक्तानि ह्यद्भुतया विद्यया पूर्णान्यासन् । मधुमक्षिकाभिः शुद्धं मधु इव ऋषिभिः सर्वमपि विज्ञानं मधुरया भाषया तत्रैव सङ्गृहीतमासीत्' । 'नैव नैव नैव, विदुषां ब्राह्मणानां सुज्ञया परम्परया सङ्गृहीतं संरक्षितं चेदमप्रमेयं ज्ञानं नैवाऽस्त्युपेक्षार्हम् । किन्तु ६

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 175