Book Title: Siddhartha
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 12
________________ सहकारवनेषु विधिना पूर्णश्रद्धया यागं कुर्वाणः स सर्वेषामप्यभीष्टो वल्लभः सुखकारी चाऽऽसीत्, तथाऽपि तस्य हृदयमानन्दरहितमासीत् । नद्याः प्रवाहात्, तारकाणां स्फुरणात्, सूर्यस्य च द्रवीभूतेभ्यः किरणेभ्यः सकाशात् स्वप्ना अविश्रान्ताश्च विचारा तन्मनस्यागच्छन्ति स्म । यज्ञानां धूमस्तोमात्, वेदस्य ऋचामुच्चारात्, वृद्धब्राह्मणानामुपदेशाच्च तदन्तःकरणं व्याकुलं भवति स्म । असन्तोषस्य बीजानि सततमेतैरेतादृशैश्चाऽन्यैर्निमित्तैस्तस्य हृदये उप्यन्ते इतीव सोऽनुभवति स्म । मातापित्रोर्गोविन्दस्य च पूर्णस्नेहोऽपि तं सर्वथा सुखिनं शान्तं सन्तुष्टं तृप्तं च कर्तुं नैव समर्थ इति तस्य प्रतिभाति स्म । _ 'तत्पूज्यपित्राऽन्यैश्च विद्वद्भिाह्मणैर्निजं सर्वमपि ज्ञानं सर्वमपि च पाण्डित्यं तस्य प्रतीक्षारते मस्तिष्कभाजने प्रवाहितमासीत्, तथाऽप्यद्याऽपि तद्भाजनमपूर्णमेवाऽस्ति, प्रज्ञाऽसन्तुष्टैवाऽस्ति, स्वात्माऽशान्त एवाऽस्ति तथा हृदयं ह्यस्थिरमेवाऽस्ती'ति तच्चित्ते वारं वारमाशङ्का भवति स्म । ___ 'यद्यपि स्नानानि शुभान्यासन् तथाऽपि तान्यङ्गान्येव क्षालयितुमलं न तु पापानि, नाऽपि च व्यथितं हृदयं शमयितुम् । यज्ञ-बलिदानादयो देवानां पूजा-प्रार्थनाद्याश्च श्रेष्ठा एवाऽऽसन् परन्तु किमेत एव सर्वस्वमासीत्, किं तैः सत्यं सुखमानन्दश्च प्राप्तुं शक्यो वा ?' 'देवानामपि का वार्ता ? किं ब्रह्मैव जगदिदं सृष्टवान् वा? किं स कश्चनैक आत्मैवाऽथवा सर्वात्मा नाऽस्ति खलु? किमेते देवा अस्मादृशा एव मरणधर्माणोऽशाश्वताश्च न सन्ति वा ? तथा च कथमेतेभ्यो देवेभ्यो हविर्दानं तेषां पूजा चोचिते विवेकयुते वा ? नन्वात्मानमृतेऽन्यस्य कस्य वा पूजाऽऽदरश्च

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 175