Book Title: Siddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Author(s): Hemchandracharya, Jambuvijay
Publisher: Hemchandracharya Jain Gyanmandir Patan
View full book text ________________
सप्तमं परिशिष्टम् । एकस्वरादनुस्वारेतः । ४।४।५६। इति सूत्रस्य बृहद्वृत्तौ निर्दिष्टाः अनिट्कारिका:
[महोपाध्यायश्रीविनयविजयवाचकविरचितवृत्तिसहिताः] श्विनिडीशीयुरुक्षुक्ष्णुणुस्नुभ्यश्च वृगो वृङः । ऊद्वदन्ता युजादिभ्य: स्वरान्ता धातवोऽपरे ॥१॥ पाठ एकस्वरा: स्युर्येऽनुस्वारेत इमे मताः । द्विविधोऽपि शकिश्चैवं वचिर्विचि-रिची पचिः ॥२।। सिञ्चतिर्मुचिरतोऽपि पृच्छतिभ्रंस्जि-मस्जि-भुजयो युजिर्यजिः । वञ्जि-रजि-रुजयो निजि-विजृ सजि-भञ्जि-भजयः सृजि-त्यजी ॥३॥ स्कन्दि-विद्य-विद्ल-विन्तयो नुदि: स्विद्यति: शदि-सदी भिदि-च्छिदी। तुद्यदी पदि-हदी खिदि-क्षुदी राधि-साधि-शुधयो युधि-व्यधी॥४|| बन्धि-बुध्य-रुधयः क्रुधि-क्षुधी सिध्यतिस्तदनु हन्ति-मन्यती । आपिना तपि-शपि-क्षिपि-च्छुपो लुम्पतिः सृपि-लिपी वपि-स्वपी ।।५।। यभि-रभि-लभि-यमि-रमि-नमि-गमय: क्रुशि-लिशि-रुशि-रिशि-दिशति-दशयः । स्पृशि-मशति-विशति-दृशि-शिष्ल-शुषयस्त्विषि-पिषि-विष्लू-कृषि-तुषि-दुषि-पुषयः ॥६||
मणिगुणनिकरच्छन्दः । श्लिष्यतिर्द्विषिरतो घसि-वसती रोहति हि-रिही अनिड् गदितौ । देग्धि-दोग्धि-लिहयो मिहि-वहती नातिर्दहिरिति स्फुटमनिटः ॥७॥ ___“एषामयर्थ:- ‘दोश्वि गतिवृद्ध्योः' 'श्रिग् सेवायाम्' द्वौ हस्वेदन्तौ। ‘डीङ् विहायसां गतौ' 'डीच् गतौ' 'शी स्वप्ने', त्रयो दीर्घदन्ताः । 'युक् मिश्रणे' 'रुक् टुक्षुक् शब्दे' 'क्ष्णुक् तेजने' ‘णुक् स्तुतौ' 'मुक् प्रस्नवने' उदन्ता: षट् । 'वृकुट् वरणे' 'वृङ्ग् संभक्तौ' संभक्तिः संसेवा, द्वौ ह्रस्वत्रकारान्तौ । 'भू सत्तायाम्' ‘णूत् स्तुतौ' 'लूगूश् छेदने' 'पूडू पवने' 'मूङ् बन्धने' इत्यादयो दीर्घोदन्ताः । 'तृ प्लवनतरणयोः' इत्यादयो ये दीर्घऋकारान्ताः युजादयश्चराद्यन्तर्गता: अदन्ता धातवः, एभ्य: परे (एभ्योऽपरे) ३० ये स्वरान्ता अनुस्वारेतो धातवस्ते सर्वेऽप्यनिटो ज्ञेयाः । यथा “पां पाने' । धात्वादेशा अपि धातव एवेति तेऽप्यनुस्वारेतोऽनिट एव । 'चक्षो वाचि क्शांग् ख्यांग्' (४|४|४) आक्शाता आख्याता | 'जि जिं अभिभवे' जेता । ‘णींग् प्रापणे' नेता । अजेर्वी प्रचेता । 'शुं गतौ' शोता । ‘स्मृ चिन्तायाम्' स्मर्ता । ३३ तथा व्यञ्जनान्ता अपि पाठे धातुपाठे ये एकस्वरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678