Book Title: Siddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Author(s): Hemchandracharya, Jambuvijay
Publisher: Hemchandracharya Jain Gyanmandir Patan

View full book text
Previous | Next

Page 663
________________ ६१४ अनिट्कारिकाः अनुस्वारेतस्तेऽनिटस्ते च इमे वक्ष्यमाणा मता ज्ञाता वाचार्यैरिति शेषः । द्विविधोऽपि शकिरिति शक्लॅट शक्ती, शकींच मर्षणे, द्वौ कान्तौ; शक्ता शक्तुम् । शक्यतेरिटमिच्छन्त्येके शकिता । वचंक् परिभाषणे ब्रूगादेशो वा वक्ता वक्तुम् । विचूंपी पृथग्भावे, वेक्ता, विवेक्तुम् । रिचुंपी विरेचने, विरेचनं नि:सारणं, रेक्ता । डुपचींष् पाके, पक्ता, किंचीत् क्षरणे, सेक्ता, मुच्छ्रेती मोक्षणे, मोक्ता, चान्ताः षट् । प्रछंत् ज्ञीप्सायाम्, ज्ञीप्सा जिज्ञासा, प्रष्टा, छान्त एक: । भ्रस्जीत् पाके, भ्रष्टा, भर्टा । टुमस्जोंत् शुद्धौ, शुद्धया स्नानं बुडनं च लक्ष्यते, मता, भुजोंत् कौटिल्ये, भुजंप पालनाभ्यवहारयोः, भोक्ता, युजिंच समाधौ, युपी योगे, योक्ता, यजी देवपूजादिषु, यष्टा, ष्वजित् सङ्गे परिष्वता, रञ्जीं रागे, रता, रुजोत् भनें, रोक्ता, णिजूं शौचे, नेक्ता निर्णेक्ता, विजूंकी पृथगभावे, विवेक्ता, षजं सङ्गे, ससा, भञ्जौप् आमर्दने, भता, भजी सेवायाम्, भक्ता, सृजिंच विसर्गे सृजत् अतिसर्जने, स्रष्टा, त्यजं हानौ, त्यक्ता, एकोनविंशतिर्जान्ताः ।।१९।। स्कंदूंगतिशोषणयोः, स्कन्ता, विदिच् सत्तायाम्, सत्ता भावः, विद्द्वंती लाभे, विदिप विचारणे, वेत्ता, विन्दतेरिटमिच्छन्त्येके, वेदिता धनस्य, णुदत् प्रेरणे, नोत्ता ।।५।। ष्विदांच गात्रप्रक्षरणे, स्वेत्ता, शद्लं शातने, षद्लं विशरणगत्यवसाद नेषु, सत्ता, भिवृंपी विदारणे, भेत्ता, छिद्रूपी द्वैधीकरणे, छेत्ता १० । तुदीत् व्यथने, तोत्ता, अदंक भक्षणे, अत्ता, जिघत्सति, पदिंच गतौ, पत्ता, हदीं परीषोत्सर्गे, हत्ता, खिदिंच दैन्ये १५ । खिदित् परिघाते, मुचादि:, खिदिप दैन्ये, खेत्ता, खिदतेरिटमिच्छन्त्येके खेदिता, क्षुद्रूपी संपेषे, क्षोत्ता, अष्टादश दान्ता: १८। साधंच् वृद्धौ, राधंट् संसिद्धौ, राधा, साधंट संसिद्धौ, साद्धा, शुधंच् शौचे, शोद्धा, युधिंच् सम्प्रहारे, योद्धा, व्यधंच् ताडने, व्यद्धा, बन्धश् बन्धने, सम्बद्धा, बुधिंच ज्ञाने, बोद्धा, रुधुंपी आवरणे, रोद्धा, क्रुधंच कोपे, क्रोद्धा, क्षुधंच् बुभुक्षायाम्, क्षोद्धा, षिधंच् संराद्धौ, सेद्धा, धान्ता द्वादश । हनंक् हिंसागत्योः, हन्ता, मनिंच ज्ञाने, मन्ता । नान्तौ द्वौ । आप्लंट् व्याप्तौ, आप्ता, तपं सन्तापे तपिंच ऐश्वर्ये वा । तपं सन्तापे इत्यस्यैव धातोरैश्वर्येऽर्थे दिवादित्वमात्मनेपदं वा विधीयते । तथा शपी आक्रोशे, शपींच आक्रोशे, शप्ता, क्षिपंच प्रेरणे, क्षेप्ता, छुपंत स्पर्श, छोप्ता, लुप्लुती छेदने, लोप्ता, सृष्ठं गतौ, सप्ता सप्ता, लिंपीत् उपदेहे, उपदेहो वृद्धि: लेप्ता, टुवपीं बीजसन्ताने, वप्ता, निष्वपंक् शये, स्वप्ता । पान्तास्त्रयोदश । यभं मैथुने, यब्धा, रभिं राभस्ये, राभस्यं कार्योपक्रमः, आरब्धा, डुलभिंष् प्राप्तौ, लब्धा । भान्तास्त्रयः । य{ उपरमे, उपरमो निवृत्तिः, यन्ता, रमिं क्रीडायाम्, रन्ता, णमं प्रह्वत्वे, प्रह्वत्वं नम्रत्वम्, नन्ता, गम्खं गतौ, गन्ता । मान्ताश्चत्वारः । क्रुशं आह्वानरोदनयोः, क्रोष्टा, लिशंत् गतौ, लेष्टा, रुशंत् रिशंत् हिंसायाम्, रोष्टा रेष्टा, दिशीत् अतिसर्जने, अतिसर्जनं त्यागः, देष्टा, दंशं दशने, दंष्टा, स्पृशंत् संस्पर्शे, स्प्रष्टा स्पा, मृशंत् आमर्शने, भ्रष्टा मर्टा, विशंत् प्रवेशने, वेष्टा, दृशृं प्रेक्षणे, द्रष्टा । शकारान्ता दश । शिष्लँप् विशेषणे, विशेषणं गुणान्तरोत्पादनम्, शेष्टा, शुषंच् शोषणे, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678