Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अथ द्वितीयाsध्यायस्य द्वितीयः पादः ॥
भहिंसायाम् || २ |२| ६ ॥
[भहिंसायाम् ] भक्षि षष्ठी डस् । हिंसा सप्तमी ङि ।
[भक्षयति सस्यं बलीवर्दान् मैत्रः ] 'भक्षण् अदने ' (१७१७) भक्षू । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । भक्षयन्ति सस्यं बलीवर्दास्तान् बलीवर्दान् सस्यं भक्षयन्तः (तः) मैत्रः प्रयुङ्क्ते । 'प्रयोक्तृ० ' ( ३।४।२०) णिग्प्र० । 'णेरनिटि ' (४।३।८३) णिग्लोपः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतो० (१।२।२३) अय् ।
[भक्षयति पिण्ड शिशुना ] भक्षयति पिण्ड शिशुस्तं पिण्डीं भक्षयन्तं शिशुं माता प्रयुङ्क्ते । 'प्रयोक्तृ० ' ( ३।४।२०)
णिग्प्र० ।
[भक्षयति राजद्रव्यं नियुक्तेन ] भक्षयति राजद्रव्यं नियुक्तस्तं राजद्रव्यं भक्षयन्तं नियुक्तममात्यः प्रयुङ्क्ते' । 'प्रयोक्तृ०' ( ३।४।२० ) णिग्प्र० ।
[ भक्षयति पुत्रान् गार्ग्या] भक्षयति पुत्रान् गार्गी, तां पुत्रान् भक्षयन्तीं अन्यः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग् ( ३।४।२० ) णिग्प्र० ।।छ।।
वहेः प्रवेयः || २ |२॥७॥
[ वहेः प्रवेयः ] वहि षष्ठी इस् । 'वींक् प्रजनकान्त्यसनखादनेषु च' (१०७६) वी, प्रपूर्व० । प्रवीयते इति प्रवेयः । अथवा ‘अज क्षेपणे च' (१३९) अज्, प्रपूर्व० । प्रवीयते प्राजनक्रियायां व्याप्यते यः सः = प्रवेयः । य एच्चातः' (५।१।२८) यप्र० । ‘अघञ्क्यबलच्यजेर्वी' (४।४।२ ) वी । 'नामिनो गुणोऽक्ङिति' ( ४ | ३ |१) एकारु । प्रथमा सि ।
[वाहयति भारं बलीवर्दान् ] 'वहीं प्रापणे' (९९६) वहू । वहन्ति भारं बलीवर्दास्तान् बलीवर्दान् भारं नियन्ता बहवः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० ।
[वाहयति भारं मैत्रेण] वहति भारं मैत्रस्तं मैत्रं भारं वहन्तं अन्यः प्रयुङ्क्ते । 'प्रयोक्तृ० ' ( ३।४।२०) णिग्प्र० । । छ । ।
- क्रोर्नवा ||२२|८||
[क्रोः ] हाच का च = क्रौ तयोः
क्रोः, षष्ठी ओस् ।
[ विहारयति देशमाचार्यमाचार्येण वा ] 'हंग् हरणे' (८८५) हृ, विपूर्व० । विहरति देशमाचार्य:, तमाचार्यं देशं विहरन्तं शिष्यः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे० ' ( ३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हले:' ( ४।३।५१) वृ० आर् ।
=
[ आहारयत्योदनं बालकं बालकेन वा ] 'आहरत्योदनं बालकः, तमोदनमाहरन्तं बालकं माता प्रयुङ्क्ते । 'प्रयोक्तृ०' ( ३।४।२० ) णिगप्र० ।
[विकारयति सैन्धवान् सैन्धवैरिति वा ] विकुर्वते सैन्धवाः, तान् विकुर्वतः निषादी प्रयुङ्क्ते । 'प्रयोक्तृ० ' ( ३।४।२०)
प्रि० ।
[विकारयति स्वरं क्रोष्टारं क्रोष्टुना वा] विकुरुते स्वरं क्रोष्टा, तं क्रोष्टारं स्वरं विकुर्वन्तं ( विकुर्वाणं) अन्यः प्रयुङ्क्ते । 'प्रयोक्तृ०' ( ३।४।२०) णिग्प्र० ।
Jain Education International
[ हारयति द्रव्यं मैत्रं मैत्रेण वा ] हरति मैत्रो द्रव्यं, तं मैत्रं द्रव्यं हरन्तं चैत्रः प्रयुङ्क्ते । 'प्रयोक्तृ० ' ( ३।४।२०) णिग्प्र० । [कारयति कटं चैत्रं चैत्रेण वा ] 'डुकृंग् करणे' (८८८) कृ । करोति कटं चैत्रः, तं चैत्रं कटं कुर्वन्तं मैत्रः प्रयुङ्क्ते ।
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 346