SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाsध्यायस्य द्वितीयः पादः ॥ भहिंसायाम् || २ |२| ६ ॥ [भहिंसायाम् ] भक्षि षष्ठी डस् । हिंसा सप्तमी ङि । [भक्षयति सस्यं बलीवर्दान् मैत्रः ] 'भक्षण् अदने ' (१७१७) भक्षू । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । भक्षयन्ति सस्यं बलीवर्दास्तान् बलीवर्दान् सस्यं भक्षयन्तः (तः) मैत्रः प्रयुङ्क्ते । 'प्रयोक्तृ० ' ( ३।४।२०) णिग्प्र० । 'णेरनिटि ' (४।३।८३) णिग्लोपः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतो० (१।२।२३) अय् । [भक्षयति पिण्ड शिशुना ] भक्षयति पिण्ड शिशुस्तं पिण्डीं भक्षयन्तं शिशुं माता प्रयुङ्क्ते । 'प्रयोक्तृ० ' ( ३।४।२०) णिग्प्र० । [भक्षयति राजद्रव्यं नियुक्तेन ] भक्षयति राजद्रव्यं नियुक्तस्तं राजद्रव्यं भक्षयन्तं नियुक्तममात्यः प्रयुङ्क्ते' । 'प्रयोक्तृ०' ( ३।४।२० ) णिग्प्र० । [ भक्षयति पुत्रान् गार्ग्या] भक्षयति पुत्रान् गार्गी, तां पुत्रान् भक्षयन्तीं अन्यः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग् ( ३।४।२० ) णिग्प्र० ।।छ।। वहेः प्रवेयः || २ |२॥७॥ [ वहेः प्रवेयः ] वहि षष्ठी इस् । 'वींक् प्रजनकान्त्यसनखादनेषु च' (१०७६) वी, प्रपूर्व० । प्रवीयते इति प्रवेयः । अथवा ‘अज क्षेपणे च' (१३९) अज्, प्रपूर्व० । प्रवीयते प्राजनक्रियायां व्याप्यते यः सः = प्रवेयः । य एच्चातः' (५।१।२८) यप्र० । ‘अघञ्क्यबलच्यजेर्वी' (४।४।२ ) वी । 'नामिनो गुणोऽक्ङिति' ( ४ | ३ |१) एकारु । प्रथमा सि । [वाहयति भारं बलीवर्दान् ] 'वहीं प्रापणे' (९९६) वहू । वहन्ति भारं बलीवर्दास्तान् बलीवर्दान् भारं नियन्ता बहवः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । [वाहयति भारं मैत्रेण] वहति भारं मैत्रस्तं मैत्रं भारं वहन्तं अन्यः प्रयुङ्क्ते । 'प्रयोक्तृ० ' ( ३।४।२०) णिग्प्र० । । छ । । - क्रोर्नवा ||२२|८|| [क्रोः ] हाच का च = क्रौ तयोः क्रोः, षष्ठी ओस् । [ विहारयति देशमाचार्यमाचार्येण वा ] 'हंग् हरणे' (८८५) हृ, विपूर्व० । विहरति देशमाचार्य:, तमाचार्यं देशं विहरन्तं शिष्यः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे० ' ( ३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हले:' ( ४।३।५१) वृ० आर् । = [ आहारयत्योदनं बालकं बालकेन वा ] 'आहरत्योदनं बालकः, तमोदनमाहरन्तं बालकं माता प्रयुङ्क्ते । 'प्रयोक्तृ०' ( ३।४।२० ) णिगप्र० । [विकारयति सैन्धवान् सैन्धवैरिति वा ] विकुर्वते सैन्धवाः, तान् विकुर्वतः निषादी प्रयुङ्क्ते । 'प्रयोक्तृ० ' ( ३।४।२०) प्रि० । [विकारयति स्वरं क्रोष्टारं क्रोष्टुना वा] विकुरुते स्वरं क्रोष्टा, तं क्रोष्टारं स्वरं विकुर्वन्तं ( विकुर्वाणं) अन्यः प्रयुङ्क्ते । 'प्रयोक्तृ०' ( ३।४।२०) णिग्प्र० । Jain Education International [ हारयति द्रव्यं मैत्रं मैत्रेण वा ] हरति मैत्रो द्रव्यं, तं मैत्रं द्रव्यं हरन्तं चैत्रः प्रयुङ्क्ते । 'प्रयोक्तृ० ' ( ३।४।२०) णिग्प्र० । [कारयति कटं चैत्रं चैत्रेण वा ] 'डुकृंग् करणे' (८८८) कृ । करोति कटं चैत्रः, तं चैत्रं कटं कुर्वन्तं मैत्रः प्रयुङ्क्ते । For Private Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy