________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[आशयति बटुं भक्तम्] 'अशश् भोजने' (१५५८) अश् । अश्नाति बटुर्भक्तं, तं बटुं भक्तमश्नन्तं माता प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिगप्र० ।
[जल्पयति मैत्रं द्रव्यम्] रप (३३५) - लप (३३६) - 'जल्प व्यक्ते वचने' (३३७) जल्प् । जल्पति मैत्रो द्रव्यं, तं मैत्रं द्रव्यं जल्पन्तं चैत्रः प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० ।
[आलापयति मित्रं मैत्रम्] रप (३३५) - ‘लप व्यक्ते वचने' (३३६) लप्, आयूर्व० । आलपति मित्रो मैत्रं, तं मित्रं मैत्रमालपन्तं चैत्रः प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० ।
संभाषयति मैत्रं भार्याम] 'भाषि व्यक्तायां वाचि' (८३२) भाष, संपूर्व० । संभाषते मैत्रो भााँ, तं मैत्रं संभाषमाणं चैत्रः प्रयुक्ते । ‘प्रयोक्तृ०' (३।४।२०) णिग्प्र० ।
[श्रावयति शब्दं मैत्रम्] 'श्रृंट् श्रवणे' (१२९६) श्रु । शृणोति शब्दं मैत्रः, तं मैत्रं शब्दं शृण्वन्तं चैत्रः प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० ।
[अध्यापयति बटुं वेदम] 'इंक अध्ययने' (११०४) इ, अधिपूर्व० । अधीते बटुर्वेद, तं वटुं वेदमधीयानमुपाध्यायः प्रयुक्ते । 'प्रयोक्तृ०' (३।४।२०) णिगप्र० । 'णौ क्री-जीडः' (४।२।१०) आ । 'अर्ति-री०' (४२१२१) पोऽन्तः ।
जल्पयति मित्रं वाक्यम] जल्पति मित्रो वाक्यं, तं मित्रं वाक्यं जल्पन्तमन्यः प्रयुक्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० ।
[विज्ञापयति गुरुं वाक्यम्] विजानाति गुरुर्वाक्यं, तं गुरुं वाक्यं विजानन्तमन्यः प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० ।
[उपलम्भयति शिष्यं विद्याम्] उपलभते शिष्यो विद्या, तं शिष्यं विद्यामुपलभमानमुपाध्यायः प्रयुङ्क्ते । ‘प्रयोक्तृ०' (३।४।२०) णिगप्र० । 'लभः' (४|४|१०३) नागमः ।
[आसयति मैत्रं चैत्रः] आस्ते मैत्रस्तं मैत्रमासीनं चैत्रः प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । [शाययति मैत्रं चैत्रः] शेते मैत्रः, तं मैत्रं शयानं चैत्रः प्रयुक्ते । ‘प्रयोक्तृ०' (३।४।२०) णिग्प० ।
नाययति भारं चैत्रेण] ‘णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७)नी । नयति भारं चैत्रः, तं चैत्रं भारं नयन्तं मैत्रः प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० ।
खादयत्यपूपं मैत्रेण] 'खादृ भक्षणे' (२९४) खाद् । खादत्यपूपं मैत्रस्तं मैत्रमपूपं खादन्तं माता प्रयुक्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प० ।
[आदयत्योदनं मैत्रेण] ‘अदं भक्षणे' (१०५९) अद् । अत्त्योदनं मैत्रस्तं मैत्रमोदनमदन्तं चैत्रः प्रयुक्ते । ‘प्रयोक्तृ०' (३।४।२०) णिग्प० ।
हवाययति चैत्रं मैत्रेण] 'éग् स्पर्धा-शब्दयोः' (९९४) हे । यति चैत्रस्तं चैत्रं यन्तं मैत्रः प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'आत् सन्ध्यक्षरस्य' (४।२।१) ह्वा । ‘पा-शा-छा-सा-वे-व्या-ह्वो यः' (४।२।२०) योऽन्तः ।
[शब्दाययति चैत्रं मैत्रेण] शब्दं करोति शब्दायते । 'शब्दादेः कृतौ वा' (३।४।३५) क्यप्र० → य । शब्दायते चैत्रस्तं चैत्र शब्दायन्तं(मानं) मैत्रः प्रयुक्ते ।
क्रन्दयति मित्रं मैत्रेण] 'क्रदु रोदनाह्वानयोः' (३१६) क्रद् । 'उदितः स्वरा०' (४।४।९८) नोऽन्तः । क्रन्दति मित्रो, तं मित्रं क्रन्दन्तं मैत्रः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे०' (३।४।२०) णिगप० । 'हेतु-कर्तृ-करणेत्थम्भूतलक्षणे' (२।२।४४) तृतीया ।।छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org