________________
अथ द्वितीयाऽध्यायस्य द्वितीयः पाद: ।।
कर्मनित्याऽकर्माणस्तेषाम् ।
[अनीखाद्यदिहवाशब्दायक्रन्दाम] नीश्च खादिश्च अदिश्च हवाश्च शब्दायश्च क्रन्द च = नीखाद्यदिहवाशब्दायक्रन्दः । न नीखाद्यदिह्वाशब्दायक्रन्दः = अनीखाद्यदिह्वाशब्दायक्रन्दः । 'नञत्' (३।२।१२५) न० → अ० , तेषाम् ।
[गमयति मैत्रं ग्रामम्] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - ‘गम्यूँ गतौ' (३९६) गम् । गच्छति मैत्रो ग्राम, तं मैत्रं ग्रामं गच्छन्तं चैत्रः प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'णिति' (४।३।५०) उपान्त्यवृद्धिः । ‘अमोऽकम्यमि-चमः' (४।२।२६) ह्रस्वः । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
यापयति मैत्रं ग्रामम] 'यांक प्रापणे' (१०६२) या | चाति मैत्रो ग्रामं, तं मैत्रं ग्रामं यान्तं चैत्रः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'अति-री-ब्ली-ही-क्नूयि-क्ष्माय्यातां पुः' (४।२।२१) पोऽन्तः । वर्त्त० तिव । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[बोधयति गुरुः शिष्यं धर्मम्] बुध्यते शिष्यो धर्मं, तं शिष्यं धर्मं बुध्यमानं गुरुः प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'लघोरुपान्त्यस्य' (४।३।४) गु० उ० → ओ० ।
[ज्ञापयति गुरुः शिष्यं धर्मम] 'ज्ञांशु अवबोधने' (१५४०) ज्ञा । जानाति शिष्यो धर्मं, तं शिष्यं धर्म जानन्तं गुरुः प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग' (३।४।२०) णिगप्र० । 'अर्त्ति-री-व्ली०' (४।२।२१) पोऽन्तः ।
उपलम्भयति गुरुः शिष्यं धर्मम] 'डुलभिष प्राप्तौ' (७८६) लभ, उपपूर्व० । उपलभते शिष्यो धर्म, तं शिष्यं धर्म उपलभमानं गुरुः प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'लभः' (४।४।१०३) नागमः ।
[अवगमयति गुरुः शिष्यं धर्मम्] अवगच्छति शिष्यो धर्म, तं शिष्यं धर्मं अवगच्छन्तं गुरुः प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० ।
[दर्शयति रूपतर्क कार्षापणं वणिक] 'दृशं प्रेक्षणे' (४९५) दृश । पश्यति रूपतर्काः(र्कः) कार्षापणं, तं रूपतर्क कार्षापणं पश्यन्तं वणिक् प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० ।
[घापयति मैत्रमुत्पलम] 'घां गन्धोपादाने'(३)घा । जिघ्रति मैत्र उत्पलं, तं उत्पलं जिघन्तं चैत्रः प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० ।
[स्पर्शयति मैत्रं वस्त्रम] 'स्पृशंत संस्पर्श' (१४१२) स्पृश । स्पृशति मैत्रो वस्त्रं, तं वस्त्रं स्पृशन्तं चैत्रः प्रयुड़क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० ।
[श्रावयति शिष्यं धर्मम] 'श्रृंट श्रवणे' (१२९६) श्रु | शृणोति शिष्यो धर्म, तं शिष्यं धर्मं शृण्वन्तं गुरुः प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० ।
[स्मारयति शिष्यं धर्मम्] ‘स्मृ चिन्तायाम्' (१८) स्मृ । स्मरति शिष्यो धर्म, तं शिष्यं धर्मं स्मरन्तं अन्यः प्रयुङ्क्ते । ‘प्रयोक्तृ०' (३।४।२०) णिगप्र० ।
[अध्यापयति शिष्यं शास्त्रम] 'इंक अध्ययने' (११०४) इ, अधिपूर्व० । अधीते शिष्यः शास्त्रं, तं शिष्यं शास्त्रमधीयानमुपाध्यायः प्रयुक्ते । ‘प्रयोक्त०' (३।२।२०) णिग्प० ।
[भोजयति बटुमोदनम] 'भुजंप् पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भुङ्क्ते बटुरोदनं, तं बटुं ओदनं भुशानं माता प्रयुक्ते । ‘प्रयोक्तृ०' (३।४।२०) णिग्प० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org