________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
कर्तुर्व्याप्यं कर्म ।।२।२।३।। [कर्तुः] कर्तृ षष्ठी ङस् । 'ऋतो डुर' (१।४।३७) डुर् | 'डित्यन्त्यस्वरादे:' (२।१।११४) अन्त्यस्वरादिलोपः ।
[व्याप्यम्] वि ‘आप्लृट् व्याप्तौ' (१३०७) आप् । विशेषेण आप्यते- प्राप्यत इति व्याप्यम् । 'शकि-तकि-चति-यतिशसि-सहि-यजि-भजि-पवर्गात्' (५।१।२९) यप्र० ।
[कर्म] कर्मन् प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः । 'नाम्नो नोऽनहः' (२।१।९१) नलोपः । ___[गमयति मैत्रं ग्रामम्] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - 'गम्लं गतौ' (३९६) गम् । गच्छति मैत्रो ग्राम, तं मैत्रं ग्रामं गच्छन्तं चैत्रः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'णिति' (४।३।५०) उपान्त्यवृद्धिः । ‘अमोऽकम्यमि-चमः' (४।२।२६) ह्रस्वः । वर्त्तः तिव् । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[आसयति मासं मैत्रम] 'आसिक उपवेशने' (१११९) आस् । आस्ते मैत्रो मासं, तं मैत्रं मासं आसन्तं (आसीनं) चैत्रः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० ।।
[बोधयति शिष्यं धर्मम्] 'बुधिं ज्ञाने' (१२६२) बुध् । बुध्यते शिष्यो धर्म, तं शिष्यं धर्मं बुध्यन्तं (बुध्यमानं) आचार्यः प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० ।
[भोजयत्यतिथिमोदनम्] 'भुजंप पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भुङ्क्तेऽतिथिरोदनं, तमतिथिमोदनं भुञ्जन्तमन्यः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० ।।
[पाठयति शिष्यं ग्रन्थम] 'पठ व्यक्तायां वाचि' (२१३) पठ् । पठति शिष्यो ग्रन्थं, तं शिष्यं ग्रन्थं पठन्तमुपाध्यायः प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० ॥छ।।
वाऽकर्मणामणिकर्ता णौ ।।२।२।४।। [वाऽकर्मणामणिकर्ता णौ वा प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । न विद्यते कर्म येषां तेऽकर्मणस्तेषां = अकर्मणाम् । णिगि कर्ता = णिकर्ता । न णिकर्ता = अणिकर्त्ता । 'नजत्' (३।२।१२५) न० → अ० । प्रथमा सि । 'ऋदुशनम् - पुरुदंशोऽनेहसश्च सेर्डाः' (१।४।८४) डा । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । ‘हदिर्हस्वरस्याऽनु नवा' (१।३।३१) द्वित्वम् । णि सप्तमी ङि ।
[पचति चैत्रः, पाचयति चैत्रं चैत्रेण वा] 'डुपचीष पाके' (८९२) पच । पचति चैत्रस्तं चैत्रं पचन्तं मैत्रः प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः ।।
लिखति मैत्रः, लेखयति मैत्रं मैत्रेण वा लिखति मैत्रस्तं मैत्रं लिखन्तं चैत्रः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग' (३।४।२०) णिग्प० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए. । [गच्छति चैत्रः, गमयति चैत्रम्] गच्छति चैत्रस्तं चैत्रं गच्छन्तं मैत्रः प्रयुङ्क्ते । ‘प्रयोक्तृ०' (३।४।२०) णिग्प० ।।छ।।
गति-बोधाऽऽहारार्थ-शब्दकर्म-नित्याऽकर्मणामनी-खाद्यदि-ह्वा-शब्दाय-क्रन्दाम् ।।२।२।५।। [गतिबोधाऽऽहारार्थशब्दकर्मनित्याऽकर्मणाम] गतिश्च बोधश्च आहारश्च = गतिबोधाऽऽहाराः । गतिबोधाऽऽहारा अर्था येषां ते = गतिबोधाऽऽहारार्थाः । शब्द: कर्म येषां ते = शब्दकर्माणः । नित्यं न विद्यते कर्म येषां ते = नित्याऽकर्माणः । 'नञत्' (३।२।१२५) न० → अ० । गतिबोधाऽऽहारार्थाश्च शब्दकर्माणश्च नित्याऽकर्माणश्च = गतिबोधाऽऽहारार्थशब्दP. विशेषेण का क्रियया वा आप्नुमिष्यते यत् तत् = व्याप्यम् । 'ऋवर्णव्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org