Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
'प्रयोक्तृ०' (३।४।२०) णिगप्र० । 'नामिनोऽकालि-हलेः' (४।३।५१) वृ० आर । ‘हेतु-कर्तृ-करणेत्थम्भूतलक्षणे' (२१२१४४) तृतीया टा । एवमग्रेऽपि ।छ।।
दृश्यभिवदोरात्मने ।।२।२।९।। [दृश्यभिवदोः] दृशिश्च अभिवच्च = दृश्यभिवदौ, तयोः = दृश्यभिवदोः, षष्ठी ओस् । [आत्मने] आत्मनेपदं । 'ते लुग्वा' (३।२।१०८) पदलोपः ।
[दर्शयते राजा भृत्यान् भृत्यैर्वा] 'दृशुं प्रेक्षणे' (४९५) दृश् । पश्यन्ति भृत्या राजानं, तान् भृत्यान् राजानं पश्यतो राजैवानुकूलाचरणेन प्रयुक्ते । ‘प्रयोक्तृ०' (३।४।२०) णिग्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'अणिकर्मणिकर्तृकाण्णिगोऽस्मृतौ' (३।३।८८) आत्मनेपदम् ।
अभिवादयते गुरुः शिष्यं शिष्येण वा] 'वद व्यक्तायां वाचि' (९९८) वद, अभिपूर्व० । अभिवदति गुरुं शिष्यः, तं शिष्यं गुरुमभिवदन्तमनुकूलाचरणेन गुरुरेव प्रयुक्ते । ‘प्रयोक्तृ०' (३।४।२०) णिगप० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'अणिकर्मणिक्कर्तृकाण्णिगोऽस्मृतौ' (३।३।८८) आत्मनेपदं स्यात् ।
[अभिवादयते गुरुं शिष्यं शिष्येण वा मैत्रः] अभिवदति गुरुं शिष्यः, तं शिष्यं गुरुमभिवदन्तं मैत्रः प्रयुक्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० ।
[दर्शयमानो राजा भृत्यान भृत्यैर्वा] पश्यन्ति राजानं भृत्याः, तान राजानं पश्यतो मैत्रः प्रयुक्ते । 'प्रयोक्त०' (३।४।२०) णिगप० । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) आनश्प्र० → आन । 'कर्तर्यनद्भ्यः शव' (३।४।७१) शव । 'नामिनो गुणो०' (४।३।१) गु० ए । 'एदैतोऽयाय (१।२।२३) अय् । 'अतो म आने' (४।४।११४) मोऽन्तः ।
[दर्शयति रूपतर्क कार्षापणम पश्यति रूपतर्कः कार्षापणं, तं रूपतर्क कार्षापणं पश्यन्तमन्यः प्रयुक्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् ।
[अभिवादयति गुरुं शिष्येण] अभिवदति गुरु शिष्यः, तं शिष्यं गुरुमभिवदन्तं मैत्रः प्रयुङ्क्ते ।
[अभिवादयते गुरुं देवदत्तो गुरुणेति वा] 'वदिण् भाषणे' (१९६३) वद्, अभिपूर्व० । चुरादिभ्यो णिच्' (३।४।१७) णिचप्र० । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः । अभिवादयति गुरुं देवदत्तः, तं देवदत्तं गुरुमभिवादयन्तं गुरुरन्यः प्रयुङ्क्ते । 'प्रयोक्त०' (३।४।२०) णिग्प० ।।छ।।
नाथः ।।२।२।१०।।
[नाथः] नाथ् षष्ठी डस् । [सर्पिषो नाथते, सर्पि थते] 'नाङ उपतापैश्वर्याशीःषु च' (७१६) नाथ् । वर्त्त० ते । 'कर्त्तर्य०' (३।४।७१) शव ।
[सर्पिषो नाथमानः, सर्पि थमानः] नाथ् । 'शत्रानशा०' (५।२।२०) आनश्प० → आन । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'अतो म आने' (४।४।११४) मोऽन्तः । ।
[सर्पिषो नाथिष्यमाणः, सर्पि थिष्यमाणः] नाथिष्यते = नाथिष्यमाणः । ‘शत्रानशा०' (५।२।२०) आनश्प० → आन, स्य आदिः । 'स्ताद्यशितो०' (४।४।३२) इट् ।
[पुत्रमुपनाथति पाठाय] 'नाथूङ याचने' (७१६) नाथ, उपपूर्व० । वर्त्त० तिव ।।छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 346