Book Title: Siddh Hemchandra Vyakaranam Part 01 Author(s): Darshanratnavijay, Vimalratnavijay Publisher: Jain Shravika SanghPage 15
________________ (८) नीयतामित्युक्ते चित्रगवोपलक्षितः पुमानेवाऽऽनीयते न तु चित्रा गौरिति । व्यवस्थार्थोऽपि न घटते वर्णसमाम्नायस्य व्यवस्थितत्वेनाव्यभिचारात् 'सभवे व्यभिचारे च स्याद् विशेषणमर्थवद्' इति न्यायः । कादीनां परस्परमत्यन्तवैसदृश्यात् प्रकारार्थोऽपि न युक्तिसंगतः । अवयवार्थवृत्तिस्तु युक्तिसंगतः, ककार आदिरवयवो यस्य वर्णसमुदायस्य स कादि: अत एवेह तद्गुणसंविज्ञान - बहुव्रीहिः समुदायस्यावयवेषु समवेतत्वात् स्यग्भूतावयवत्वेन समुदायस्य प्राधान्यादेकवचनम् । कस्यादिः कादिरिति व्याख्याने ' व्यवस्था वाच्यप्यादिशब्द:, तेन स्वराणां न व्यञ्जनसञ्ज्ञा, अनुस्वारविसर्गयोस्तु भवति ततोऽनुस्वारस्य व्यञ्जनसंज्ञायां संस्कर्तत्यत्रानुस्वाररुपव्यञ्जनात् परस्यसस्य ‘घुटो घुटि स्वे वा |१| ३ | ४८ । इत्यनेन लुक् सिद्धः । विसर्गस्य तु व्यत्वे सुपूर्वस्य दुःखयतेः विवपि णिलुकि, सेश्च लुकिं 'पदस्य | २|११८९ । इति विसर्गरुपसंयोगान्तस्थस्य खस्य लुक् सिद्ध:, 'विसर्गस्य च कस्या दिरिति व्युत्पत्त्या 'अपञ्चमान्तस्थ० | १|१|११| इति धुवं च घुटस्तृतीयः | २|१२|७६ | इति स्थान्यासन्ने गत्वे सति सुदुगिति सिद्धम् । अपञ्चमान्तस्थो घुट् । १।१।११। वर्गपञ्चमान्तस्थावर्जः कादिर्वर्णो भुटू स्यात् । क ख ग घ च छ ज झ ट ठ ड ढ त थ द ध प फ ब भ श ष स ह 1 7 रा० गु० पञ्चमाश्चान्तस्थाश्च पञ्चमान्तस्थ न विद्यते पञ्चमान्तस्थं यस्य वर्णसमुदायस्य सोऽपञ्चमान्तस्थः ' नञत् । ३ । २ । १२५ । इति अः पञ्चानां पूरणाः नो मट् | ७|१|१५९ । इति मटि पञ्चमाः । पञ्चको वर्गः । १ । १ । १२ । कादिषु वर्णेषु यो यः पञ्चसङ्ख्यापरिमाणो वर्णः स स वर्गः स्यात् क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध - न प फ ब भ म । रा० गु० पञ्च सङ्ख्या मानमस्य सङ्ख्याडतेश्चाशतिष्टेः कःPage Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 576