Book Title: Siddh Hemchandra Vyakaranam Part 01 Author(s): Darshanratnavijay, Vimalratnavijay Publisher: Jain Shravika SanghPage 20
________________ (१३) तदन्तं पदम् ।१।१।२० । स्थाद्यन्तं त्याद्यन्तं च पदं स्यात्, धर्मो वः स्वं ददाति, नः शास्त्रम् ॥ २०॥ सा विभक्ति रन्ते यस्य तत् तदन्तम्, पदिच गती, पद्यते गम्यते कारकसंपष्टोऽर्थोऽनेनेति पदम् । ननु 'प्रत्ययः प्रकृत्यादेः' ।७।७।११५॥ इति परिभाषासूत्रेण तदन्तविधेाभात् 'सा पद' मित्येव सूत्रं कर्तव्यं, न तु तदन्तं पद' मिति शङ्कायामाह- धर्मो वः स्वं ददाति, नः शास्त्रमिति । अयं भावः यदि उक्तपरिभाषया तदन्तस्य लाभस्तहि 'स्त्यादिविभक्तिः' इत्यत्रापि तदन्तलाभेन स्त्याद्यान्तस्य विभक्तिसञ्ज्ञा प्रात्नोति, तथा च सति धर्मः ददाति इत्य । दोनों स्त्याद्यन्तानां विभक्ति संज्ञकतया पदसज्ञाऽभावाद्य ष्मदस्म-दोः ‘पदाद्य ०' ।२।१।२१। इति वस्नसादेशौ न स्याताम् , अत: अन्तग्रहणं कृतम्, तथा च संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहण नास्तीति सूचितम् । एवञ्च संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहणं न तदन्तस्य' इति न्यायस्यान्तपदेन सूचन भवति । फलं च स्त्यादिविभक्तिरित्यादावन्तग्रहणाभावः । डुदांगक दाने ।११३८। धातोः 'हवः शिति' ।४।१।४२। द्विरुक्ती "हस्वः” ।४।१।३९ इति द्वित्वे पूर्वस्य ह्रस्वे च ददाति ॥२०॥ नाम सिदव्यजने । १।१।२१। · · सिति प्रत्यये यवर्जव्यञ्जनादौ च परे पूर्व नाम पदं स्यात्, भवदीयः, पयोभ्याम् । अयिति किम् ? वाच्यति । नमति गच्छत्यर्थं प्रति इति नाम 'सात्मन्नात्मन्निति' निपातनम् । इत् अनुबन्धो यस्यासौ सित्, न य् अय, अय् च तद्व्यञ्जन च अयव्यञ्जन, सिच्च अयव्यजनं च सिदयव्यजनं तस्मिन्, पदमित्यूनवर्तते । भवतोऽयं भवदीय:, भवतोरिकणीयसौ ।६।३।३०। इतीयस् अनेन पदत्वात् 'धुटस्तृतीयः' १२११७६। इति तस्य दः । अत्र भवत: इति विग्रहान्तर्गतषष्ठीविभक्तिमादाय भवच्छब्दस्य पदत्वे सिद्ध सिद्ग्रहणं व्यर्थं सन्नियमति, सकारानुबन्धप्रत्यये परे एव पदसंज्ञा, न तु प्रत्ययान्तरे इति, अतः भगवतः इदं भागवतमित्यादाPage Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 576