Book Title: Siddh Hemchandra Vyakaranam Part 01 Author(s): Darshanratnavijay, Vimalratnavijay Publisher: Jain Shravika SanghPage 18
________________ (११) स्थानारयप्रयत्नौ यस्य य वर्णम्तं प्रति स्व: स्यात् । तत्र त्रयोऽकारा उदात्तानुदात्तस्वरिताः प्रत्येक सानुनासिकनिरनुनासिक-भेदात् षट् एवं दीर्घप्लुताः इत्यष्टादशभेदा अवर्णस्य, ते सर्व कण्ठस्थाना. विवृतकरणा: परस्परं स्वा। एवमिवर्णास्तावन्तस्तालव्याः विवृतकरणा: परस्परं स्वाः, उवर्णा ओष्ठ्या विवृतकरणा: स्वाः, ऋवर्णा मूर्धन्या विवृतकरणा: परस्परं स्वाः । लुबर्णा दन्त्या: विव्रतकरणाः परस्परं स्वाः । सन्ध्यक्ष राणां हस्वा न सन्ति इति तानि प्रत्येक द्वादशभेदानि । तत्र एकारास्तालव्या: विवृततराः परस्परं स्वाः । ऐकारास्तालच्या अति विवृततराः परस्परं स्वाः । ओकार। ओष्ठया अतिविवृततरा परस्परं स्वाः, वाः पञ्च पञ्च परस्परं स्वाः, यलबानामनुनासिको निग्नुनासिकश्त्र हो भेदो परस्परं स्बौ ।।१७।। यत्र पुद्गलस्कन्धस्य वर्णभावापत्तिस्तत्स्थानं कष्ठादि । तिष्ठन्ति वर्णा अस्मिन् इति 'करुणाधारे १५।३।१२९। इत्यनटि स्थानम् । प्रयत्तः उत्साहः । स्पृश्यन्ते स्म स्पृष्टा वर्णाः तेषां भावः स्पृष्टता, वर्णानां प्रवृत्तिनिमित्तम्, स्पृष्ट नाहेतुत्वात्प्रयत्नोपि स्पृष्टता 'अभ्रादिभ्यः ।७।२।४६। इत्यप्रत्यये वा संज्ञाशब्दत्वात् स्त्रीत्वम् । विनियन्ते स्म वित्ता वर्णास्तेषां भाव: । नाभिप्रदेशात्प्रयत्नप्रेरितः.प्राजो नाम वायूः ऊध्वंमाकामन्नुर:-प्रभतीनां स्थानानामन्यतमस्मिन स्थाने प्रयत्नेन विधार्यते, स विधार्यमानः स्थानमभिहन्ति, तस्मात् स्थानाभिधाताद् भवनिरुत्पद्यते आकाशे सा वर्णश्रुतिः; स वणस्याऽऽत्मलाभः । तत्र वर्णध्वनावत्पद्यमाने यदा स्थानक रणप्रयत्नाः परस्परं स्पृशन्ति सा स्पष्टता यदेषत्स्पृशनि तदेतत्स्पृष्टता। दूरेण यदा स्पृशन्ति सा विवृतता एषोऽन्तः-प्रयत्नः कण्ठे भवः कण्ठ्यः तालुनि भवः तालव्यः । अवर्णहविसर्गकवर्गाः कण्ठया: । इवर्णचवर्गयशास्तालव्याः। ऋवर्णटंवर्गरषा: मूर्धन्या । उवर्ण-पवर्गो पध्मानीया ओष्ठ्यः । ल वर्णतगलसा दन्त्याः । नासिकामनुगतो यो बर्ण-धर्मः स अनुनासिकः स धर्मोऽस्यास्तीति अभ्रादित्वात् अ: । निर्गतोऽनुनासिकात् य स निग्नुनासिक; । अनुनासिकेन सह वतते स सानुनासिकः । रफोरमणा तु अतुल्यस्थान'ऽऽप्यप्रयत्नत्वात् स्वा न भवन्ति । अन्यवणपिक्षया तेषां स्वत्वाभावः, रेफस्य तु रेफः स्वो भवत्येव । यदा सर्वाङ्गानुसारो प्रयत्नस्तोत्रो भवति तदा गात्रस्य विग्रहः कण्ठबिलस्य चाणुत्वं स्वरस्य च वायोस्तीव्र गतित्वात् रोक्ष्यं भवति तमुदात्तमाचक्षते । यदा तु मन्दः प्रयत्नो भवति तदा गात्रस्य स्रसनं कण्ठबिलस्य त्र महत्त्व स्वरस्य च वायोर्मन्दगतित्वात् स्निग्धता भवति तमनुदा तमाचक्षते । उदाताऽनुदात्तPage Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 576