________________
(१३)
तदन्तं पदम् ।१।१।२० ।
स्थाद्यन्तं त्याद्यन्तं च पदं स्यात्, धर्मो वः स्वं ददाति, नः शास्त्रम् ॥ २०॥
सा विभक्ति रन्ते यस्य तत् तदन्तम्, पदिच गती, पद्यते गम्यते कारकसंपष्टोऽर्थोऽनेनेति पदम् । ननु 'प्रत्ययः प्रकृत्यादेः' ।७।७।११५॥ इति परिभाषासूत्रेण तदन्तविधेाभात् 'सा पद' मित्येव सूत्रं कर्तव्यं, न तु तदन्तं पद' मिति शङ्कायामाह- धर्मो वः स्वं ददाति, नः शास्त्रमिति । अयं भावः यदि उक्तपरिभाषया तदन्तस्य लाभस्तहि 'स्त्यादिविभक्तिः' इत्यत्रापि तदन्तलाभेन स्त्याद्यान्तस्य विभक्तिसञ्ज्ञा प्रात्नोति, तथा च सति धर्मः ददाति इत्य । दोनों स्त्याद्यन्तानां विभक्ति संज्ञकतया पदसज्ञाऽभावाद्य ष्मदस्म-दोः ‘पदाद्य ०' ।२।१।२१। इति वस्नसादेशौ न स्याताम् , अत: अन्तग्रहणं कृतम्, तथा च संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहण नास्तीति सूचितम् । एवञ्च संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहणं न तदन्तस्य' इति न्यायस्यान्तपदेन सूचन भवति । फलं च स्त्यादिविभक्तिरित्यादावन्तग्रहणाभावः । डुदांगक दाने ।११३८। धातोः 'हवः शिति' ।४।१।४२। द्विरुक्ती "हस्वः” ।४।१।३९ इति द्वित्वे पूर्वस्य ह्रस्वे च ददाति ॥२०॥
नाम सिदव्यजने । १।१।२१। · · सिति प्रत्यये यवर्जव्यञ्जनादौ च परे पूर्व नाम पदं स्यात्, भवदीयः, पयोभ्याम् । अयिति किम् ? वाच्यति ।
नमति गच्छत्यर्थं प्रति इति नाम 'सात्मन्नात्मन्निति' निपातनम् । इत् अनुबन्धो यस्यासौ सित्, न य् अय, अय् च तद्व्यञ्जन च अयव्यञ्जन, सिच्च अयव्यजनं च सिदयव्यजनं तस्मिन्, पदमित्यूनवर्तते । भवतोऽयं भवदीय:, भवतोरिकणीयसौ ।६।३।३०। इतीयस् अनेन पदत्वात् 'धुटस्तृतीयः' १२११७६। इति तस्य दः । अत्र भवत: इति विग्रहान्तर्गतषष्ठीविभक्तिमादाय भवच्छब्दस्य पदत्वे सिद्ध सिद्ग्रहणं व्यर्थं सन्नियमति, सकारानुबन्धप्रत्यये परे एव पदसंज्ञा, न तु प्रत्ययान्तरे इति, अतः भगवतः इदं भागवतमित्यादा