________________
स्वरसंनिपातात् स्वरितः इत्येषः सर्वो बाह्यप्रयत्न इति । स्वर: संजातो येषां ते स्वरिताः । तारकादित्वादितच ॥१७॥ . .
-
स्यौजसअमौशम. टाभ्यां भिस् डेभ्यां-भ्यस्, ङसिभ्या-भ्यस्, ङसोसाम् ङयोस्सुपां त्रयी नमी प्रश. मादिः । १।१।१८।
स्यादीनां प्रत्ययानां त्रयी त्रयी यथासङ्घयं प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी स्यात् ॥१८॥
... त्रयोऽवयवा यस्या: सा त्रयी .'द्वित्रिभ्यामयड् वा ।७।१।१५२॥ इति अयट 'अणजेये० ।२।४।२०। इति छी:, 'अस्य छयां बुक' ।।४।८६। 'इति अलोप:' दीर्घङ याब० ॥१।४।४५। इति सेर्लोप: 'वीप्सायाम्।७।४१८०। इत्यनेन द्वित्वे त्रयी त्रयी। बहुवचनं स्याद्यादेशानामपि प्रथमादिसंज्ञाप्रतिपत्त्यर्थम् । प्रकृतेरादेश: प्रकृतिवद् भवति इति न्यायात् साध्यसिद्धिर्भविष्यति किं बहुवचनेन ? बहुवचनं महती शक्तिर्यया परिभाषां न्यायांश्च विनाऽपि साध्यते इति ज्ञापितम् ॥१८॥
-
-
स्त्यादिविभक्तिः । १।१।१९। 'स्' इति च 'ति' इति च उत्सृष्टानुबन्धस्य सेः तिवाच ग्रहणम् । स्यादयः तिवादयश्च सुपस्यामहिपर्यन्ता विभक्तः स्युः ॥ १९ ॥
विभज्यन्ते प्रकटीक्रियन्ते कतृकर्मादयोऽर्था अनयेति 'नयादिभ्य ।५।३।९२॥ इति क्तिः । आदिशब्दो व्यवस्थावाची तेन ये यदनुबन्धा यावन्तो विभक्तिसंज्ञायां पूर्वाचायैर्व्यवस्थापितास्त एव तदनुबन्धा एव तावन्तं एवाऽत्र गह्यन्ते इति । उत्सृष्ट: त्यक्त: अनुबन्धो मेन स तस्य । अनुबध्यले कार्यार्थमुपदिश्यते स अनुबन्धः ।।१९ ।