________________
(१४)
वण्-प्रत्यये परे न पदसंज्ञा । पयस्भ्याम् . पापाने पोयते तृषातैरिति पय:, पय् पयते याति स्वभावान्निम्नप्रदेशमिति पय: 'सो रु:' ।२।१।७२। सूत्रात्सस्य रूत्वं घोषवति' ।।३।२। उकार:, 'अवर्णस्ये०' ११२१६। सूत्रादोत्वम् । ननु 'नाम सिदय्व्यञ्जने इत्येव' सूत्र्यतां, किमित्ययग्रहणमिति शङ्कायामाहवाच्यतीति-वाचमिच्छति वाच्यति 'अमाव्ययात्क्यन्' ।३।४।२३। 'कर्तर्यनद्भ्यः ।३।४।७१। शवोऽनाकाङक्षायामपि 'पर्जन्यवल्लक्षणप्रवृत्तिः' इति न्यायेन शव । अत्र यकारे परे वाच: पदत्वप्राप्त्या चकारस्य कः स्यात्, तव्यावृत्त्यर्थः यवर्जनम् । यद्यपि राजीयतीत्यादौ 'नाम सिदयव्यजने' ।१।१।२१॥ इति पदत्वप्राप्त्या 'नं क्ये' इति सूत्रं व्यर्थं सत् क्यप्रत्यये परे नकारान्त मेव नाम पदसंज्ञं भवतीति नियमयति तथा च वाच्यतीत्यादौ न पदसंज्ञा प्राप्नोतीति यवर्जनं व्यर्थं, तथापि सत्सु साधु सत्यमित्यादौ पदसंज्ञाव्यावृत्तये यवर्जन कृतम् ॥२१॥
नं क्ये।१।१।२२।। 'क्ये' इति क्यन्क्यङ क्यङर्षा ग्रहणप, नान्तं नाम क्ये परे पर्द स्यात् । राजोति, राजायते, चर्मायति ॥ २२ ॥
नं क्ये ॥ क्यन्क्या क्यङषां ग्रहणमिति, नात्र, क्यक्यपोर्ग्रहणं नामाधिकारत्वात् । राजानमिच्छति राजीयति 'अमाव्ययात् क्यन् ।।४।२३। पदत्वात् क्यनि ईकार: । राजेवाऽऽचरति राजायते, क्यङ ।३।४।२६। इति क्यङि 'दीर्घश्च्वियङ' ।४।३।१०८। दीर्घः । चर भक्षणे ल 'मन्' ।९११। इत्यु.. णादिमन्प्रत्यये चर्म इति । अचर्म चर्म भवति चर्मायति, अत्र चर्मन् शब्दश्च.. मवदर्थकः, चर्मण: प्रागतत्त्वासम्भवेन व्याघटनात्, पदत्वान्नकारलोप: 'डाच् लोहिता०' ।३।४।३०। इति क्यङष, अयिति प्रतिषेधात्पूर्वेणाप्राप्ते वचनम् ॥२२॥
न स्तं मत्वर्थे ।१।१।२३।
सान्तं तान्तं च नाम मत्वर्थे परे पदं न स्यात्, यशस्वी, तडित्वान् ।