________________
(१५)
स च तश्च स्तं, मतोरर्थः मत्वर्थः मतरर्थोऽस्त्यस्येति मत्वर्थस्तस्मिन् । यशोऽस्यास्तीति यशस्वी, 'अस्तपोमायामेधास्रजो विन् ।७।२।४७। सूत्रात् विन्, 'इन् हुन् पूषा०' ।११४१८७। इति दीर्घः, तडित् विद्यते यस्यासी 'तदस्या०' ७।२।१॥ इति मतुप । 'मावर्णान्तो०' ।२।१।९४। इति मस्य वः, अत्र पदत्वनिषेधाद्र फदकारौ न भवतः । तथा मतोरपि मत्वर्थाऽव्यभिचारान्मत्वर्थशब्देन ग्रहणम् । 'नाम सिदय० ॥१।१।२१ इति प्राप्तौ प्रतिषेधोऽयम् । अत्र विचार:- मतशब्दो मत्वर्थ लाक्षणिक: 'शक्यसम्बन्धो लक्षणा' मतश्च स्वार्थेन सप्तम्याधारतया षष्ठ्यर्थसम्बन्धेन वाऽव्यवभिचारात् अव्यभिचारित्वलक्षणो सम्बन्धः तेन मतुशब्द: सप्तम्यर्थाधारतापरः षष्ठ्यर्थसम्बन्धपरो वा तदर्थका: प्रत्यया अपि मत्वर्था भवन्ति यथा उष्ट्रमुख शब्दे: उष्ट्र: स्वस्य मुखं भवितु नाईतीति उष्ट्रस्य उष्ट्रमुख लक्षणा उष्ट्रमुखमपि प्राण्यन्तरस्य मुखं भवितु नाहतीति उष्ट्रमुखस्य उष्ट्रमुखसदृशे लक्षणा इयं लक्षितलक्षणोच्यते-लक्षितस्य लक्षणा लक्षितलक्षणा । यथा नैयायिका द्विरेफशब्दस्य द्विरेफविशिष्टे भ्रमरशब्दे लक्षणां मन्यन्ते भ्रमरशब्दस्य च भ्रमरशब्दवाच्ये लक्षणां कुवन्ति ॥२३॥ .
मनुनभोऽङ्गिरोवति ।१।१।२४ । एतानि वति परे पदं न स्युः । मनुष्वत् नभस्वत्, अङ्गिरस्वत् । ॥ २४॥
मनुश्च नभश्च अङ्गिगश्च मनुर्नभोऽङ्गिर: वति सप्तमी । मनुरिव मनुष्यवत्, नभ इव नभस्वत्, अङ्गिरा इव अङ्गिरस्वत् । अङ्गिरा नाम ऋषि: 'स्यादिरिवे' ।७।१।१२। इति वत् 'नाम्यन्तस्था०' ।२।३।१५॥ इति षकार: । अत्र पदत्वाभावात् न 'सो रु:'।२।१।७२१, पदमध्यत्वात् मनुष्वदित्यत्र षकार: ॥२४॥
वृत्तयन्तोऽसले । १।१।२५ । परार्थाभिधायो समासादिर्वृत्तिः, तस्या अन्तः अवसानं पदं न स्यात्, असषे-सस्य तु षत्वे पदमेव । परमदिवौ, बहुदण्डिनौ । असष इति