________________
(१६)
किम् ? दधिसेक् ॥ २५ ॥
. वृतूङ, वर्तने, वर्तनं वृत्तिः, स्त्रियां ति: ।५।३।९१। वर्तनं तु अवयवार्थाऽपेक्षया परस्य समुदायार्थस्य प्रतिपादनम् । वर्तनात्मिकाया: क्रियाया अन्तो भवितू नाहतीति लक्षणया वत्तिशब्द: वतिमदबोधकः । यद्वा वर्तन्ते स्वार्थापरित्यागेन पदान्यत्रेति आधारे तो वृत्तिः पदसमुदायादिरुपा । सा त्रिधा समासवत्तिः, तद्धितान्तवतिः, नामधातुवत्तिश्चति । यथा राजपुरुषः, औपगवः, पुत्रकाम्यतीत्यादि । वत्तेन्त: वत्त्यन्तः, सस्य षः सषः, न संष असषः तस्मिन् । परार्थाभिधायोति- अवयवार्थापेक्षयाऽन्यस्य समुदायार्थस्याभिधायकम् , तद्धटकैः परितरार्थान्वितस्वार्थस्यवोपस्थान सा वत्तिरिति यावत् । परमदिवाविति- परमा द्यौर्ययोस्तौ अब परमदिव औ, इति दशा.. याम् औ-विभक्तेर्वृत्त्यघटकत्वेन परमदिव् इत्यस्य वृन्यन्तत्वं बोध्यम् । 'परत: स्त्री पुवत् ।३।२।४९। इति पूवद्भावः दण्डाः सन्त्येषामिति दण्डिनः । बहवो दण्डिनो ययोस्तो, यद्वा ईषदनौ दण्डिनी बहदण्डिनौ, नाम्नः प्राग्बहा' ।७।३।१२। सूत्रात्पूर्वं बहुप्रत्ययः किंचीत् क्षरणे, सिञ्चतीति सेक्, दध्न: सेक दधिसेक । अत्र षत्वे कर्तव्येऽनेन सूत्रेण पदसंज्ञायां सकारस्य पदादित्वेन 'नाम्यन्तस्था० १२।३।१५। इत्यनेन षत्वाभावः सिध्यति । अन्तर्वतिन्या विभ. क्तयाः स्थानिपभावेन पदत्वं प्राप्तमनेन निषिध्यते । बत्ति ग्रहणं किम्-मंत्रस्य कर्म । अन्त ग्रहणं किम् ? राजवाक् । वाक्वक्स च इति त्रयाणां वृत्तौ न द्वयोः पृथग्वत्तिरिति मध्यमस्य निषेधो न भवति । अथ वाक्त्वमित्यत्र समासान्ते अप्रत्यये सति व त्यन्तत्वाभावात्पदत्व प्राप्नोति, तथा च कत्वं स्यात्, उच्यते समासान्तरं समासान्तप्रत्ययस्य विधानेन त्वचो व त्त्यन्तत्वान्न कत्वम समासान्तप्रत्ययश्च वत्तबहिभूत इति । नत्यन्तशब्दात् से; ओकारनिदेश: 'अन्त. रङ्ग बहिरङ्गात्' 'न स्वरान्ततये' इति ज्यायो सूचयति । वृत्त्यन्त +उ+ असषे इति स्थिते 'इवर्णादेः ।१।२।२१॥ इति वत्त्वे वृत्त्यन्तवसषे' इति करणापत्तिरिति चेत् 'अन्तरङ्ग बहिरङ्गातः इति न्यायात एकपदाश्रितत्वेनान्तरङ्गत्वात 'अवर्णस्ये १०।६। इति पूर्वेण सहौत्वमेव भवति न तू 'इवर्णादे.' ।१।१।२१॥ इति वत्वं पदद्वयाश्रितत्वेन बहिरङ्गत्वात । नन्वसिद्ध बहिरङ्गमन्तरङ्ग इति न्यायाद 'अतोऽति रो रुः ।१।३।२०। इत्यनेन कृतस्यात्त्वस्थ्य पदान्तस्थाकारसापेक्षत्वेन बहिरङ्गस्य 'अवर्णस्ये' ।१२।६। इति प्राक्स्थिा . ताकारेण सहोत्त्वे एकपदाश्रितत्वेनान्तरङ्ग कर्तव्येऽसिद्धत्वात् 'वृत्त्यन्तो इति निर्देशोऽसङ्गत इति चेत्सत्यमत्र 'वृत्त्यन्तो.' इति निर्देशो ज्ञापयति यत् 'न