________________
(१७)
स्वरानन्तर्ये' इत्यपि न्यायोऽस्ति, 'स्वरयोरव्यवधाने सति बहिरङ्गमन्तरङ्ग कर्तव्येऽसि न भवतीत्यर्थः ॥२५॥
सविशेषणमारख्यातं वाक्यम् । १।१।२६ । प्रयुज्यमानरप्रयुज्यमानैर्वा विशेषण सहितं प्रयुज्यमानमप्रयुज्यमानं वा आख्यातं वाक्यं स्यात् । धर्मों वो रक्षतु, लुनीहि ३, पृथुकांश्च खाद, शोलं ते स्वम् ॥ २६ ॥ ...
विशिष्यते व्यवच्छिद्यते विशेष्यमनेनेति करणेऽनट, सह विशेषणवंतते यत्तत्सविशेषणम् 'सहस्य सोऽन्यार्थे ।३।२।१४३। ख्यांक प्रकथने, साध्यार्थाभिधायितया आख्यायते कथ्यते इत्याख्यातम्, वचंक भाषणे उच्यते इति वाक्यम् । प्रयुज्यमानैरित्यादि क्रियाविशेषणस्य तत्साधनस्य वाऽव्यवधानेनातद् पध्यवच्छेदकं परम्पराविशेषणमुच्यते, विशेषणान्तरद्वारेण च व्यवच्छेदक परम्परा-विशेषणमुच्यते, उभयविधैरपि विशेषणैः प्रयुज्यमानैरप्रयुज्यमानैर्वा सहित तथाविध विशेष्यमाख्यातं वाक्यं स्यादित्यर्थः । आख्यातपदेन क्रियावाचकपदस्य ग्रहणं न तु त्याद्यन्तमात्रस्य, तेन चैत्रेण शयितव्यमित्याद्यपि वाक्यं भवति । धर्मो वो रक्षतु पदाध ग०' ।२।१।२१॥ इति वस् । दुर्गतिपतन्तं जन्तुसंतानं धरति स धर्मः । रक्ष पालने, पञ्चमी तुन् । इदं प्रयुज्यमानविशेषणं, लुनीहि ३ 'क्षियाशी:०' ।७।४।९२। इति प्रैषार्थे इकार: प्लुत: एतदप्रयुज्यमानविशेषणम् । प्रयुज्यमानाख्यातकं यथा-पृथुकांश्च खाद, शील ते स्वमित्यप्रयुज्यमानाख्यातकम् । शब्दप्रयोगोऽर्थबोधोपायः, • शब्दप्रयोगाभावेऽपि अर्थात् अप्रयुज्यमानेऽपि पदे विशेष्य विशेषण-भावे अतिप्रसङ्गः स्याद्,अन्यस्यापि तत्प्राप्तेः, अप्रयुज्यमानत्वात्सर्वं सर्वस्य विशेषण विशेष्यं च स्यान्नियामकाभावात्, क्वचित्तयोः प्रयोगस्य व्यथता च स्यादिति न च वाच्यम्-लोकात् प्रकरणाद्वा विशेष्यविशेषणयोनियतयोः प्राप्त्या तयोरप्रयोगात् । ननु लोकादेव वाक्यसिद्धिः कथमेतत्सूत्रारम्भ इति चेन्मेवम् लोको हि साकाङक्षत्वे सति आख्यात भेदेऽपि एकवाक्यत्वं स्वीकरोतीति वाक्यभेदार्थं वचनम् ॥२६॥
-
अधातुविभक्तिवाक्यमर्थवन्नाम ।१।१।२७ ।