________________
(१८)
धातुविभक्त्यन्तवाक्यवजंमर्थवच्छ स्वरुपं नाम स्यात् । वृक्षः, स्वः, धवश्च । अधातुविभक्तिवाक्यमिति किम् ? अहन, वृक्षान्, साधुधर्म बूते ।। २७ ।।
"
धांग धारणे च दधाति क्रियालक्षणमर्थमिति धातु:, धातुश्च विभत्तिश्च वाक्यं च धातुविभक्तिवाक्यं ततो नञ्समासः । अर्थ्यते इति ऋक् गत अर्थते गम्यते पुरुषरितिवाऽर्थः । अभिधेयद्योत्यलक्षणोऽर्थोऽस्यास्तीत्यर्थवन्नाम । विभक्तयन्तेति 'प्रत्ययः प्रकृत्यादेः | ७|४|११५ । सूत्रात् विभक्त्यन्तस्य लाभ: । अर्थवच्छउदरूपमति अर्थवदिति विशेषणत्वेन स्वानुगुणं विशेष्यमध्याहृतमित्याह शब्दरुपम् । अर्थश्च द्व ेधा, अभिधेयरुपः, द्योत्यरूपश्च । अभिधेयश्च स्वार्थद्रव्यलिङ्गसङ्ख्याशक्तिभेदात्पञ्चधा, द्योत्यश्च समुच्चयादिः एतौ द्वौ शब्दे वाच्यतया स्तः इत्यर्थत्रच्छन्दरूपं ज्ञेयम् । औव्रश्चात् छेदने वृदच्यते काष्ठाथिभिरिति वृक्षः । स्व:, स्वर्ग इत्यर्थेऽव्ययम्, घुनातीति धवः वृक्षविशेषः हन हिंसागत्योः, ह्यस्तनी दिव्, 'अधातो:' | ४|४|२९| इत्यडागमः, 'व्यञ्जनादेः' | ४|३|७८ । इति दिलोप: । अत्र नामत्वाभावात् 'नाम्नो०' | २|१|११| इति नलोपो ना भूत् । न च अहन्नित्यस्य विभक्त्यन्तत्वात् नामत्वाभावात् 'नाम्नो० | २|१|११| इति नलोपो न भवेदिति धातुवर्जने प्रयाजनाभाव इति वाच्यम्-हन्तीत्यत्र विभक्तेः परत्वे हनो नामत्वे 'नाम सिदय्०' | १|१| २१ | इति पदत्वे नलोपः स्यात्तद्व्यावृत्तये धातुवर्जनमिति । वृक्षानिति अत्र नामत्वे 'नलोपः स्यात् न च वृक्षानित्यत्र 'शसोना सच | १|४|४९ । इति नकारविधानसामर्थ्यान्नलोपो न भवेदिति विभक्त्यन्तवर्जनं व्यर्थमिति वाच्यम् कांस्कानित्यादौ न विधानस्य चरितार्थत्वान्नलोपः स्यादिति । विभक्त्यन्तवर्जनाच्च 'आबादिप्रत्ययान्तानां नामसंज्ञा स्यादेव । साधं संसिद्धौ उत्तमक्षमादिभिः तपोविशेषैर्भावितात्मा साध्नोति रत्नत्रयीमिति साधुः । बूं' ग्क् व्यक्तायां वाचि साधुर्धर्मं ब्रूते, इत्यादिवाक्यस्य यद्यपि विभक्त्यन्तत्वान्न नामसंज्ञति शङ्का सम्भवति तथापि ब्रूते इत्यस्यैव विभक्तयन्त्वात् 'साधु धर्मं ब्रूते इति समुदायस्य च विभक्त्यन्तत्वाभावात् नामसंज्ञाप्राप्तौ स्यादिः स्यादतो वाक्यवर्जनम् ।
अर्थवदिति विशेषणत्वेन स्वानुगुणं विशेष्यं शब्द-रूपं निर्दिशतीति वाक्यस्य नामसञ्ज्ञाप्राप्तिरेव नास्तीति वाक्यवर्जनम् किमर्थमिति चेन्मैवं समासादेः समुदायस्य नामसंज्ञा भवतीति ज्ञापनार्थम् ॥ २७॥