Book Title: Siddh Hemchandra Vyakaranam Part 01 Author(s): Darshanratnavijay, Vimalratnavijay Publisher: Jain Shravika SanghPage 14
________________ (७) अवर्णस्योवर्णेनौकार:, अवर्णस्य ओकारौकाराभ्यामौकारः। अं अः अनुस्वार-विसर्गौ।१।१।९। अकारौ उच्चारणार्थो 'अ' इति नासिक्यो वर्णः । अः इति च कण्ठय एतौ यथासङ्घयम् अनुस्वार-विसौं स्याताम् । - रा० गु० अनुस्वर्यते संलीनमुच्चार्यते इत्यनुस्वारः । नामिनोऽ कलिहलेः ।४।३।२१। इंति वृद्धिः । विसय॑ते विरम्यते विरतिभूतोऽर्थः प्रतीयते, घन, क्तेऽनिटश्च जो: कगौ घिति 1४1१1१११] इति जस्य गः, लघोरुपान्त्यस्य 1४1३1४1 गुण: 1 येन विना यदुच्चारयितुं न शक्यते तत् तस्योच्चारणम्, न शक्यते च बिन्दु-बिन्दुद्वयरुपौ वर्णावकारमन्तरेणोच्चारयितुमित्यकारावुच्चारणाथी गहीतौ । - कादिव्यंजनम् । १।१।१०। कादिवर्णो हपर्यन्तो व्यञ्जनं स्यात् । क ख ग घ ङ, च छ ज झ स, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र ल व, श पसह। . रा गु० व्यज्यते प्रकटी क्रियतेऽर्थोऽनेन 'करणाधारे ।५।३।१२९॥ इत्यनटि व्यञ्जनम्, स्वराणामर्थप्रकाशने उपकारकम्, यथा सूपादीन्योदनस्या डुदांग्क् दाने आङ पूर्वम्, आदीयते गृह्यतेऽर्थोऽस्मादिति उपसर्गाद्दः किः ।।३।८७। इति किप्रत्यये आदि: 'इडेत्पूसि चातो लुक' ।४।३।९४। इत्याकारलोप: । आदिशब्द: सामीप्य-व्यवस्था-प्रकाराऽ--वयववाची, सामीप्यवाची यथा ग्रामादौ घोषः, ग्राम समीपे घोषः । बाह्मणादयो वर्णा इत्यत्र व्यवस्थावाची तेनात्रादिशब्देन वैश्यक्षत्रिय शूद्रा एव गृह्यन्ते । आढया यज्ञदत्तात्य इति प्रकारे यज्ञदत्त सहशा इत्यर्थः, स्तम्भादयो ग्रहा इत्यवयवे स्तम्भावयवा इत्यर्थः । सामीप्यार्थवृत्त्यादिशब्दग्रहणे ककारस्य व्यञ्जनसञ्ज्ञा न स्यात्, उपलक्षणस्य कार्यऽनुपयोगात् यथा चित्रगुराPage Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 576