________________
(७)
अवर्णस्योवर्णेनौकार:, अवर्णस्य ओकारौकाराभ्यामौकारः।
अं अः अनुस्वार-विसर्गौ।१।१।९। अकारौ उच्चारणार्थो 'अ' इति नासिक्यो वर्णः । अः इति च कण्ठय एतौ यथासङ्घयम् अनुस्वार-विसौं स्याताम् ।
- रा० गु० अनुस्वर्यते संलीनमुच्चार्यते इत्यनुस्वारः । नामिनोऽ कलिहलेः ।४।३।२१। इंति वृद्धिः । विसय॑ते विरम्यते विरतिभूतोऽर्थः प्रतीयते, घन, क्तेऽनिटश्च जो: कगौ घिति 1४1१1१११] इति जस्य गः, लघोरुपान्त्यस्य 1४1३1४1 गुण: 1 येन विना यदुच्चारयितुं न शक्यते तत् तस्योच्चारणम्, न शक्यते च बिन्दु-बिन्दुद्वयरुपौ वर्णावकारमन्तरेणोच्चारयितुमित्यकारावुच्चारणाथी गहीतौ ।
-
कादिव्यंजनम् । १।१।१०।
कादिवर्णो हपर्यन्तो व्यञ्जनं स्यात् । क ख ग घ ङ, च छ ज झ
स, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र ल व, श पसह। .
रा गु० व्यज्यते प्रकटी क्रियतेऽर्थोऽनेन 'करणाधारे ।५।३।१२९॥ इत्यनटि व्यञ्जनम्, स्वराणामर्थप्रकाशने उपकारकम्, यथा सूपादीन्योदनस्या डुदांग्क् दाने आङ पूर्वम्, आदीयते गृह्यतेऽर्थोऽस्मादिति उपसर्गाद्दः किः ।।३।८७। इति किप्रत्यये आदि: 'इडेत्पूसि चातो लुक' ।४।३।९४। इत्याकारलोप: । आदिशब्द: सामीप्य-व्यवस्था-प्रकाराऽ--वयववाची, सामीप्यवाची यथा ग्रामादौ घोषः, ग्राम समीपे घोषः । बाह्मणादयो वर्णा इत्यत्र व्यवस्थावाची तेनात्रादिशब्देन वैश्यक्षत्रिय शूद्रा एव गृह्यन्ते । आढया यज्ञदत्तात्य इति प्रकारे यज्ञदत्त सहशा इत्यर्थः, स्तम्भादयो ग्रहा इत्यवयवे स्तम्भावयवा इत्यर्थः । सामीप्यार्थवृत्त्यादिशब्दग्रहणे ककारस्य व्यञ्जनसञ्ज्ञा न स्यात्, उपलक्षणस्य कार्यऽनुपयोगात् यथा चित्रगुरा