________________
(८)
नीयतामित्युक्ते चित्रगवोपलक्षितः पुमानेवाऽऽनीयते न तु चित्रा गौरिति । व्यवस्थार्थोऽपि न घटते वर्णसमाम्नायस्य व्यवस्थितत्वेनाव्यभिचारात् 'सभवे व्यभिचारे च स्याद् विशेषणमर्थवद्' इति न्यायः । कादीनां परस्परमत्यन्तवैसदृश्यात् प्रकारार्थोऽपि न युक्तिसंगतः । अवयवार्थवृत्तिस्तु युक्तिसंगतः, ककार आदिरवयवो यस्य वर्णसमुदायस्य स कादि: अत एवेह तद्गुणसंविज्ञान - बहुव्रीहिः समुदायस्यावयवेषु समवेतत्वात् स्यग्भूतावयवत्वेन समुदायस्य प्राधान्यादेकवचनम् । कस्यादिः कादिरिति व्याख्याने ' व्यवस्था वाच्यप्यादिशब्द:, तेन स्वराणां न व्यञ्जनसञ्ज्ञा, अनुस्वारविसर्गयोस्तु भवति ततोऽनुस्वारस्य व्यञ्जनसंज्ञायां संस्कर्तत्यत्रानुस्वाररुपव्यञ्जनात् परस्यसस्य ‘घुटो घुटि स्वे वा |१| ३ | ४८ । इत्यनेन लुक् सिद्धः । विसर्गस्य तु व्यत्वे सुपूर्वस्य दुःखयतेः विवपि णिलुकि, सेश्च लुकिं 'पदस्य | २|११८९ । इति विसर्गरुपसंयोगान्तस्थस्य खस्य लुक् सिद्ध:, 'विसर्गस्य च कस्या दिरिति व्युत्पत्त्या 'अपञ्चमान्तस्थ० | १|१|११| इति धुवं च घुटस्तृतीयः | २|१२|७६ | इति स्थान्यासन्ने गत्वे सति सुदुगिति सिद्धम् ।
अपञ्चमान्तस्थो घुट् । १।१।११। वर्गपञ्चमान्तस्थावर्जः कादिर्वर्णो भुटू स्यात् । क ख ग घ च छ ज झ ट ठ ड ढ त थ द ध प फ ब भ श ष स ह 1
7
रा० गु० पञ्चमाश्चान्तस्थाश्च पञ्चमान्तस्थ न विद्यते पञ्चमान्तस्थं यस्य वर्णसमुदायस्य सोऽपञ्चमान्तस्थः ' नञत् । ३ । २ । १२५ । इति अः पञ्चानां पूरणाः नो मट् | ७|१|१५९ । इति मटि पञ्चमाः ।
पञ्चको वर्गः । १ । १ । १२ ।
कादिषु वर्णेषु यो यः पञ्चसङ्ख्यापरिमाणो वर्णः स स वर्गः स्यात् क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध - न प फ ब भ म ।
रा० गु० पञ्च सङ्ख्या मानमस्य सङ्ख्याडतेश्चाशतिष्टेः कः