Book Title: Shrutsagar 2018 07 Volume 05 Issue 02
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SHRUTSAGAR
20
July-2018
॥३८॥
॥३९॥
दृष्टः श्रुतोऽपि च मया ननु पूजितोऽपि भक्त्या धृतो हृदि कदापि हि नैव मन्ये । दुःखास्पदं जनसुमित्र! च तेन जातो यस्मात् क्रिया प्रतिफलन्ति न भावशून्याः त्वं देव! दुःखिजनपालक! हे जिनेश! सो(सौ) भाग्यपुण्यविपणे! सततं मयीश! । सच्छ्रद्धया नततनौ करुणां प्रणीय दुःखाङ्कुरोद्दलनतत्परतां विधेहि भूयिष्ठवीर्यसदनं गतपङकवृन्दं सम्प्राप्य नासितविपक्ष "चणावदातम् । त्वत्पादपद्ममपि वै प्रणिपात"मोघो वध्योऽस्मि चेद् भुवनपावन! हा हतोऽस्मि गीर्वाणनायकसुपूजित! विश्ववन्द्य!, सद्भव्यपालक ! विभो! विजितारिवर्ग! । संरक्ष नाथ! करुणाकर! मां प्रसीद सीदन्तमद्य भयदव्यसनाम्बुराशेः स्वामिन् ! त्वदंह्रिनलिनस्य फलं शुभं मे भक्तेर्विभो ! यदि किलाऽस्ति गुणालयस्य । त्वत्किङ्करस्य विगतान्यविभोस्तु तत् स्याः, स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥४२॥ एवं विशिष्टसुधियो विधिना जिनेश!, हर्षोत्करेण हि विकाशितकायदेशाः । त्वद्वक्रनिर्मलकुशेशयबद्धवेध्या(:) ये संस्तवं तव विभो ! रचयन्ति भव्याः नृनयनकैरवचन्द्र!, स्वर्ण(र्ग) विलाशे (से)न पूर्णशं लात्वा । ते मुक्तकल्कनिचया-अचिरान् मोक्षं प्रपद्यन्ते
॥४१॥
श्रीमत्पाठकमुख्यः, कनककुमारा जयन्ति भूपीठे । तेषां विनयेनेदं, कनकविलाशेन संरचितम्
Acharya Shri Kailassagarsuri Gyanmandir
118011
For Private and Personal Use Only
॥४३॥
118811
॥४५॥
॥ इति श्री समस्याबन्धनिबद्धं कल्याणमन्दिराख्यं स्तोत्रं समाप्तम् ॥ लिखितं च उ० श्रीसुमतिसिन्धुरजी विनेयोपाध्याय - श्रीकनककुमारजीगुरूणां प्रसादात् कनकविलाशेन । शिष्य-प्रशिष्यादि (भिः) वाच्यमानं कामदं स्यात् ।
संवत १७४६ समायां चैत्रासिततृतीयायां हस्तार्के, संशोध्यं विद्वद्भिर्हितवद्भिस्सूचकत्वमपनीय । कृपां प्रणीय ममोपरि, कनकविलाशो हि वक्तीदम्
कल्याणमंदिरस्तवप्रथमश्लोकपादपूर्तिगर्भितअजितजिनस्तुतिः
कल्याणमन्दिरमुदारमवद्यभेदि, पादद्वयं तव नमामि जिनेश्वराऽहम् । सर्वार्थसाधक! मुदा विजयाङ्गजात !, त्रातत्रिविष्टप! भवाद् गजराजचिह्न ! ॥१॥
२५. प्रसिद्ध चारित्रवाळा, २६. आळसु
11811

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36