Book Title: Shrutsagar 2017 07 Volume 04 Issue 02
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SHRUTSAGAR 19 भक्तितस्तवनामापि येनेदं जगदे जिन । तेनान्तः शत्रवः सत्यं जिग्यिरे जगदे जिनः यद्वैश्वानरचन्द्रार्कज्योतिषामपि जीवितम् । तदुदेतु स्तवादस्मान्महानन्दमयं महः जय प्रथम तीर्थेश ! जय प्रथम निर्ममा ! | जय प्रथम नीतिज्ञ ! जय प्रथम पार्थिव ! त्वन्मुखेन्दुमयूखेषु प्रेषितेषु पुरः प्रभो ! । सद्यो नाभिकुलक्षीरनीरधिर्ववृधेतराम् मरुदेवीं जगत्रोऽपि मन्ये महिमहीयसीम् । यत्कुक्षिकुहरक्रोडात्प्रसूतस्त्वं जगद्गुरुः क्षिप्रमप्रहतः पन्था मुक्तेर्दुःसञ्चरश्चिरात् । नाथ प्रथमपान्थेन त्वया घण्टापथः कृतः यदि जानासि चेतांसि गतामय कृपामय । विश्वनाथकृते नाथ प्रार्थनेन कृतं मम जयत्यजितनाथस्य नाममन्त्राक्षरावलिः । भूर्भुवःस्वस्त्रयश्रीणां वशीकरणकारणम् जितशत्रुसमुद्भूत विजयाङ्ग भव प्रभो ! । त्वमन्तर्वैरिणो जिष्णुरजितः सत्यमुच्यसे त्वं देवकर्ममर्माणि निर्मूलयसि मूलतः । सत्कर्मवल्लयः किन्तु भवन्ति भवतः प्रभोः जैत्रेधरित्र्यामेतस्मिन् त्वद्यशो जयडिंडिमे । मग्नो मोहमहीभर्तुर्विक्रमोपक्रमध्वनिः 1 यं वीक्ष्य मन्मथेनापि को दण्डमपरोचितम् । शक्रोऽतिविक्रमं कर्तुं त्वत्तः किमपरोचितम् श्रीशं(सं)भव जिनाधीश मुखं पूर्णेन्दुसुन्दरम् । वाणी निर्गच्छदत्यच्छ ज्योत्स्ना सब्रह्मचारिणी नयने नूतनोन्मीलन्नीलनीलोत्पलश्रिणी । ललद्व्यालोलसेलम्बडम्बराचिहुरावलिम् उद्गच्छद्ग्रहनक्षत्रश्रेणि लक्ष्मीसखानखाः । वपुर्लवणिमाक्षुब्ध दुग्धाम्बुनिधिबन्धुरः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir July-2017 ॥५॥ ॥ श्रीसाधारण ।। ॥६॥ 11311 ॥२॥ ॥३॥ 11811 ॥ श्रीऋषभस्तव ॥ १॥५॥ 11211 ॥२॥ ॥३॥ 11811 ॥ श्रीअजितस्तव ॥ २ ॥५॥ 11211 ॥२॥ 11311

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36