________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SHRUTSAGAR
19
भक्तितस्तवनामापि येनेदं जगदे जिन । तेनान्तः शत्रवः सत्यं जिग्यिरे जगदे जिनः यद्वैश्वानरचन्द्रार्कज्योतिषामपि जीवितम् । तदुदेतु स्तवादस्मान्महानन्दमयं महः जय प्रथम तीर्थेश ! जय प्रथम निर्ममा ! | जय प्रथम नीतिज्ञ ! जय प्रथम पार्थिव ! त्वन्मुखेन्दुमयूखेषु प्रेषितेषु पुरः प्रभो ! । सद्यो नाभिकुलक्षीरनीरधिर्ववृधेतराम् मरुदेवीं जगत्रोऽपि मन्ये महिमहीयसीम् । यत्कुक्षिकुहरक्रोडात्प्रसूतस्त्वं जगद्गुरुः क्षिप्रमप्रहतः पन्था मुक्तेर्दुःसञ्चरश्चिरात् । नाथ प्रथमपान्थेन त्वया घण्टापथः कृतः यदि जानासि चेतांसि गतामय कृपामय । विश्वनाथकृते नाथ प्रार्थनेन कृतं मम जयत्यजितनाथस्य नाममन्त्राक्षरावलिः । भूर्भुवःस्वस्त्रयश्रीणां वशीकरणकारणम् जितशत्रुसमुद्भूत विजयाङ्ग भव प्रभो ! । त्वमन्तर्वैरिणो जिष्णुरजितः सत्यमुच्यसे त्वं देवकर्ममर्माणि निर्मूलयसि मूलतः । सत्कर्मवल्लयः किन्तु भवन्ति भवतः प्रभोः जैत्रेधरित्र्यामेतस्मिन् त्वद्यशो जयडिंडिमे । मग्नो मोहमहीभर्तुर्विक्रमोपक्रमध्वनिः
1
यं वीक्ष्य मन्मथेनापि को दण्डमपरोचितम् । शक्रोऽतिविक्रमं कर्तुं त्वत्तः किमपरोचितम् श्रीशं(सं)भव जिनाधीश मुखं पूर्णेन्दुसुन्दरम् । वाणी निर्गच्छदत्यच्छ ज्योत्स्ना सब्रह्मचारिणी नयने नूतनोन्मीलन्नीलनीलोत्पलश्रिणी । ललद्व्यालोलसेलम्बडम्बराचिहुरावलिम्
उद्गच्छद्ग्रहनक्षत्रश्रेणि लक्ष्मीसखानखाः । वपुर्लवणिमाक्षुब्ध दुग्धाम्बुनिधिबन्धुरः
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
July-2017
॥५॥
॥ श्रीसाधारण ।। ॥६॥
11311
॥२॥
॥३॥
11811
॥ श्रीऋषभस्तव ॥ १॥५॥
11211
॥२॥
॥३॥
11811
॥ श्रीअजितस्तव ॥ २ ॥५॥
11211
॥२॥
11311