Book Title: Shrutsagar 2017 07 Volume 04 Issue 02
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
27
॥२॥
॥३॥
||४||
SHRUTSAGAR
July-2017 तथानेकथमप्यस्तु प्रसादः सादरं मयी। यथेयं त्वत्प्रसादेन वाञ्छा विच्छिद्यते मम तथैकमपि निःकम्पदर्शनं देव देहि मे। यथा त्वदर्शनायापि न पुनः स्पृहयाम्यहम् नान्यदभ्यर्थये किञ्चित् किन्तु नाथ तथा कुरु । न च त्वयि न चान्यस्मिन् प्रार्थनं प्रार्थये यथा विहाय भुवनाभोग रविकल्पविकल्पनाम् । भास्वरं कुरु मे चेतः स्फीतमोहतमोहरम् ।। श्रीवीरस्तवः ॥ २४ ॥५॥ अहो प्रभो प्रभावस्ते दृष्टे यस्त्वयि सम्प्रति । परमानंदनिःस्यन्दी भवोऽप्येष ममाभवत्
॥१॥ यासौ चिन्तापसन्तापहेतुत्वेनैव निर्मिता। त्वदालंबनतः सापि प्राप सन्तापहारिताम्
॥२॥ श्रद्धाविहङ्गिकाशिक्यतुल्यायाश्चित्तनेत्रयोः । एकैकस्मिन् धृतोऽसि त्वं पूर्वमद्यैव तु द्वयोः सेयं जीयाज्जिनाधीश त्वद्भक्तेः शक्तिरद्भता। यया लोकाग्रसंस्थोऽपि हृदि त्वं मे निवेशितः भक्तितस्तवनामापि येनेदं जगदे जिन। तेनान्तः शत्रवः सत्यं जिग्यिरे जगदे जिनः यद्वैश्वानरचन्द्रार्कज्योतिषामपि जीवितम्। तदुदेतु स्तवादस्मान्महानन्दमयं महः ॥इतिश्रीसाधारणजिनस्तुतिः॥छ।। ॥६॥
॥ इति श्री चतुर्विंशतिजिनस्तोत्रकोशः समाप्तः ॥ लिखितं पण्डितोत्तमपण्डित श्री५श्रीविनयसुन्दर गणिविनेय विजयसुन्दरेण ॥ श्रीमतिपत्तननगरे । संवत् १६६४ वर्षे । पण्डित श्रीजयवन्त शिष्य गणि श्री विनयविजय वाचनाय ॥छ ॥ ग्रन्थाग्रं १२६ श्लोक || शुभं भवतु ॥ कल्याणमस्तु लेखकपाठकयोः ॥छ ॥ यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमसु(शु)द्धं वा मम दोषो न दीयते ॥छ॥ ॥श्री॥
॥३॥
॥४॥
॥५॥
***
For Private and Personal Use Only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36