Book Title: Shrutsagar 2016 11 Volume 03 06
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रुतसागर नवम्बर २०१६ अंबिका गृहान्निस्सारिता। शुभकरविभकरौ द्वौ पुत्त्रौ गृहीत्वा गिरिनारि (र) गिरं(रिं) प्रति प्रतिचलिता । 13 Acharya Shri Kailassagarsuri Gyanmandir मार्गे गच्छता पुत्राणां वि (बु) भुक्षातृषा लग्ना । मनसि खेदपरा जाता । चिंतयति धिग्मे । सरोवरपाल्यां गत्वा निषिन्ना । अकालवृष्टिर्जाता । सरोवरो भृतः । सहकारवृक्षः सफलो यातः । शुभकरस्य करे आम्रो दत्तः । विभकरस्य पानीयं । पश्चाद्गृहे किं जातं? सश्रू (स्वश्रू) चिंतितं । गत्वा गृहं विलोकयामि वधू किं दत्तं? किं रक्षितं? गृहे प्रविष्य(श्य) यावद्विलोकयति तावद्भूतं भाण्डं सर्वं पस्य(श्य)ति । मुनिदानप्रभावात् पट्टकः स्वर्णमयो दृष्टः । धर्मप्रभावो दृष्ट्वा पुत्राग्रे निरूपितः । मया दुर्जनवचनं श्रुतम् । अविमृस्य (श्य) वधू गृहान्निःकासिता (गृहान्निष्कासिता) । परं तथा कुरु यथा सर्वत्र विलोक्य सोधय (यित्वा ग्रामनगरपर्वतादीन् वधूं समानय । सोमभट्टः मातुः वचनं श्रुत्वा वधू अनुपदेशगतः सरोवरे उपविष्टा दृष्टा । सा पतिं विलोक्य पुत्त्रौ गृहित्वा अग्रे प्रचलिता । पथि गच्छती चिंतयति असौ मे भर्ता मां हनिष्यति । कश्चिन्निषेधकर्ता नहि । इति विमृस्य (श्य) पुत्रौ गृहित्वा कूपे I पपात कूपोपरि भर्ता समागतवान् तां मृतां दृष्ट्वा चिंतयति ‘एनां विना पश्चाद्गत्वा किं करिष्यामि । कथं वदनं दर्शयिष्ये मातुः लोकानां च' इति विचिंत्य तेनापि कूपे झंपां दत्ता। अस्याः चरणौ मे शरणं भूयात् । स (सः) सोमभट्टो मृत्वा अंबिकाया वाहने सिंघो(सिंहो) बभूव । अंबिका रत्नश्रावकस्य सुप्नो दत्तः । रत्नश्रावकेन अंबिकाप्रतिमां कारयित्वा गिरिनारि(र)गिरौ था(स्था) पना कृता । अधिष्टाय (यि) का कृता । पश्चाज्जिनशासन अधिष्टाय(यि)का विक्षाता बभूव । अस्याः प्रभावेन कंचणचलाणा(?) न्नेमिनाथ प्रतिमां वज्रमयी रत्नश्रावकेणानीता । रैवताचले प्रतिमा स्थापिता । दानशीलप्रभावादंबिका जगति विक्षा (ख्या) ता बभूव ॥ इति अंबिकादृष्टांतः॥ सं. १६४१ वर्षे श्रावण वदी १४ दिने । पं०. ॥ विजयदेव लिपीकृतं ॥ श्रीवीलादेसर मध्ये । शुभं भवतु ॥ श्री For Private and Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36