Book Title: Shravak Pragnpti Author(s): Rajendravijay Publisher: Sanskar Sahitya Sadan View full book textPage 7
________________ [2] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / श्रेयांसि बहुविघ्नानि भवन्ति महतामपि / अश्रेयसि प्रवृत्तानां क्वापि यान्ति धिनायकाः॥ . . इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वाच्छ्योभूतं वर्तते अतो माभूद्विघ्न इति विघ्नविनायकोपशान्तये, तथा प्रेक्षापूर्वकारिणः प्रयोजनादिविरहेण न क्वचिप्रवर्तन्त इयतः प्रयोजनादिप्रतिपादनार्थ च, तत्र अरहन्ते वंदित्ता इत्यनेनेष्टदेवतानमस्कारमाह अयमेव विघ्नविनायकोपशमहेतुः सावगधम्ममित्यादिना तु प्रयोजनादित्रयं इति गाथासमुदायार्थः // ___अवयवार्थस्तु अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीयहन्तस्तीर्थंकरास्तानर्हतः / वंदित्वा अभिवन्ध / श्रावका वक्ष्यमाणशब्दार्थाः तेषां धर्मस्तं किंभूतं द्वादश विधाः प्रकारा अस्येति द्वादशविधस्तं द्वादशविधमपि संपूर्ण नाणुव्रतायेकदेशप्रतिबद्धमिति / वक्ष्येऽभिधास्ये ततश्च यथोदितश्रावकधर्माभिधानमेव प्रयोजनं, स एवाभिधीयमानोऽभिधेयं, साध्यसाधनलक्षणश्च संबन्धः तत्र साध्यः प्रकरणार्थः साधनमिदमेव वचनरूपापन्नमिति // आह यद्येवं नार्थोऽनेन पूर्वाचार्यैरेव यथोदितश्रावकधर्मस्य ग्रन्थान्तरेष्वभिहितत्वात् , उच्यते,-सत्यमभिहितः प्रपञ्चेन, इह तु संक्षेपरुचिसत्त्वानुग्रहार्थ समासेणं संक्षेपेन वक्ष्ये / किं स्वमनीषिकया, नेत्याह, गुरूपदेशानुसारेण गृणाति शास्त्रार्थमिति गुरुस्तस्मादुपदेशो गुरूपदेशस्तदनुसारेण तनीत्येत्यर्थः॥Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 246