Book Title: Shodshaka Prakaranam Author(s): Haribhadrasuri, Buddhisagar Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 7
________________ माधुनिकभ्रमितजनतामनःकल्पितां तत्त्वविचारणां निर्मूलां प्रदर्शयितुञ्च श्रीमदुपाध्यायेन विशेषभावावबोधिनीखीकृतशास्त्रार्थवादसङ्ग्रहा वितेने । पुरेदं षोडशकं श्रीमद्यशोभद्रटीकया व्यराजि पुनश्चास्यापरा टीका श्रीमदुपाध्यायेन कथं विहिता ? समाधानञ्चात्रैवं विभावयन्तु विज्ञाः । | मूलग्रन्थमुद्दिश्यानेके पण्डितवर्याः पृथक् पृथगर्थख्यापकाष्टीका रचयन्ति तेन च मूलग्रन्थमहिमाप्रभूतप्रौढतामवगाहते. ___ रसनाग्रसंस्थितभारतीनामनेकेषां विदुषां विभिन्नक्षयोपशमतारतम्ययोगेन मूलश्लोकोक्ता विविधाशयाश्च सङ्गृह्यन्ते । तस्माच्च ग्रन्थोक्त-18 श्लोकानां भावार्थप्रकाशो याथातथ्येनानुबोभूय्यते. मूलग्रन्थप्रणेतृश्लोकभावार्थ तत्तत्क्षेत्रकालानुसारेण गृहीतावतारा विद्वांसः सर्वजनीनहिताभिलाषिणः प्रस्तुतसमयवम॑जुषः समीचीनं विशदीकुर्वन्ति, क्षयोपशमज्ञानापेक्षयाच सर्वे विद्वांसस्तारतम्यं निर्वहन्ति; केचिन्मन्दप्रज्ञानामुपकारं समीहमानाः संक्षेपेण मूलार्थं विवेचयन्ति, केचिच्च विद्वज्जनबोधकारिकां शास्त्रार्थवादपुरस्सरामनेकसुयुक्तिगुम्फितां सविस्तरांना टीकां विदधति, कश्चिच्च विद्वान् मूलार्थप्ररूपणां स्वकीयमत्यनुसरणशीलः प्रदीपवन्नूतनानुभवार्थप्रकाशिनी तन्तन्यते कश्चिच्च निजक्षयोपशमज्ञानबलेन तस्यैव विषयस्य प्रकारान्तरेण विशेषार्थप्रकाशनं चरीकति । तस्मादेवहेतोर्मूलसूत्राणि समुद्दिश्य तत्त्वार्थसूत्रादिष्वपि प्रभूतैः। पण्डितैः देशकालानुसारेण प्रथिताः सविताऽसङ्क्षिप्तभावार्था विविधाष्टीकाः समुपलभ्यन्ते तन्न्यायावलम्बनेनात्रापि विद्वद्वयकृतटीकाही शङ्कानिर्मूलतामगात्. तथैवागामिनि समयेऽन्ये विद्वांसो यदि नूतनाष्टीका रचयन्ति तत्र नाश्चर्य मन्तव्यं विशेषज्ञैः । श्रीमद्धरिभद्रमूरिकृत | पोडशकप्रकरणपर्यालोचनेन तत्कालीनजनानामिदानीन्तनवर्तमानसमयजुषाश्च तत्तद्विषयेषु कीदृग् विधाऽभिरुचिर्विद्यते तस्य सम्यग्ज्ञानं विद्वज्जनानां हृदि प्रतिभासते । षोडशकप्रकरणेषुच सम्प्रति कस्य विषयस्य प्राधान्याप्राधान्यमभिव्यज्यते तत्सकलं विद्वज्जना अनुमानेन Jain Education International For Private Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 230