SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ माधुनिकभ्रमितजनतामनःकल्पितां तत्त्वविचारणां निर्मूलां प्रदर्शयितुञ्च श्रीमदुपाध्यायेन विशेषभावावबोधिनीखीकृतशास्त्रार्थवादसङ्ग्रहा वितेने । पुरेदं षोडशकं श्रीमद्यशोभद्रटीकया व्यराजि पुनश्चास्यापरा टीका श्रीमदुपाध्यायेन कथं विहिता ? समाधानञ्चात्रैवं विभावयन्तु विज्ञाः । | मूलग्रन्थमुद्दिश्यानेके पण्डितवर्याः पृथक् पृथगर्थख्यापकाष्टीका रचयन्ति तेन च मूलग्रन्थमहिमाप्रभूतप्रौढतामवगाहते. ___ रसनाग्रसंस्थितभारतीनामनेकेषां विदुषां विभिन्नक्षयोपशमतारतम्ययोगेन मूलश्लोकोक्ता विविधाशयाश्च सङ्गृह्यन्ते । तस्माच्च ग्रन्थोक्त-18 श्लोकानां भावार्थप्रकाशो याथातथ्येनानुबोभूय्यते. मूलग्रन्थप्रणेतृश्लोकभावार्थ तत्तत्क्षेत्रकालानुसारेण गृहीतावतारा विद्वांसः सर्वजनीनहिताभिलाषिणः प्रस्तुतसमयवम॑जुषः समीचीनं विशदीकुर्वन्ति, क्षयोपशमज्ञानापेक्षयाच सर्वे विद्वांसस्तारतम्यं निर्वहन्ति; केचिन्मन्दप्रज्ञानामुपकारं समीहमानाः संक्षेपेण मूलार्थं विवेचयन्ति, केचिच्च विद्वज्जनबोधकारिकां शास्त्रार्थवादपुरस्सरामनेकसुयुक्तिगुम्फितां सविस्तरांना टीकां विदधति, कश्चिच्च विद्वान् मूलार्थप्ररूपणां स्वकीयमत्यनुसरणशीलः प्रदीपवन्नूतनानुभवार्थप्रकाशिनी तन्तन्यते कश्चिच्च निजक्षयोपशमज्ञानबलेन तस्यैव विषयस्य प्रकारान्तरेण विशेषार्थप्रकाशनं चरीकति । तस्मादेवहेतोर्मूलसूत्राणि समुद्दिश्य तत्त्वार्थसूत्रादिष्वपि प्रभूतैः। पण्डितैः देशकालानुसारेण प्रथिताः सविताऽसङ्क्षिप्तभावार्था विविधाष्टीकाः समुपलभ्यन्ते तन्न्यायावलम्बनेनात्रापि विद्वद्वयकृतटीकाही शङ्कानिर्मूलतामगात्. तथैवागामिनि समयेऽन्ये विद्वांसो यदि नूतनाष्टीका रचयन्ति तत्र नाश्चर्य मन्तव्यं विशेषज्ञैः । श्रीमद्धरिभद्रमूरिकृत | पोडशकप्रकरणपर्यालोचनेन तत्कालीनजनानामिदानीन्तनवर्तमानसमयजुषाश्च तत्तद्विषयेषु कीदृग् विधाऽभिरुचिर्विद्यते तस्य सम्यग्ज्ञानं विद्वज्जनानां हृदि प्रतिभासते । षोडशकप्रकरणेषुच सम्प्रति कस्य विषयस्य प्राधान्याप्राधान्यमभिव्यज्यते तत्सकलं विद्वज्जना अनुमानेन Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy