Book Title: Shodshaka Prakaranam Author(s): Haribhadrasuri, Buddhisagar Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 8
________________ श्रीषोडश- प्रकरणम् निर्णयन्ति श्रीमद्धरिभद्रसूरि समये " चैत्यवासिनां " बहुतरा सङ्ख्याऽश्रयत । तस्मिंश्च काले चैत्यवासिश्रावकाणां जिनमन्दिरप्रतिमापूजादिशै- पर्यालो. थिल्यं पूर्वसूरिकृतग्रन्थवादेनाऽनुमीयते, तन्निरासार्थ गृहीतमहाव्रतानां श्रमणानां भावपूजाधिकारित्वमनवद्यं समस्तीत्यादिभावनां निज-11 वितन्यते हृदयाने भावयता श्रीमद्धरिभद्रसूरिणा गाम्भीर्यगरिम्णा पूजाखरूपप्रकरणस्य पूजाफलप्रकरणस्यच समीचीनं विशुद्धतरभावमनल्पसारं विवेचनमकारीतिहेतोरपि सम्भावना क्रियते ॥ धर्मपरीक्षा मीमांसायाम् , श्रीमदुपाध्यायस्त्वतीवकृतावतारस्तत्प्रतिपादकहेतुवृन्दान् सयुक्ति कान् प्राकाशयत् । देशनाप्रकरणोक्तगूढभावार्थमाधुर्य्यन्त्वलौकिकमेव विभाव्यते. समुचितचारित्रविभूषणैर्ऋतिभिः कदा कस्मिन् प्रदेशे केषामग्रे यथाधिकारं भव्यजनोद्दिधीर्षया देशनादानं विधेयमिति स्फुटतरं तत् खरूपं विज्ञातुमिदं देशनाप्रकरणमवश्यमनायासेन दृक्पथं नेतव्यम्-" धर्मलक्षणाभिख्ये षोडशके " " यथानाम तथा गुणाः " इति न्यायं सत्यापयितुं समानि धर्मलक्षणानि विशदीकृत्य विनिवे-1 शितानि विलोक्यन्ते, धर्मेच्छुलिङ्गीया विषयाश्चागाधगाम्भीर्या अनघगुणभाजो नितान्तरसनिर्भरास्तत्त्वबुभुत्सितानामश्रमेण सदर्थप्राप्तिहेतवः | प्रतिश्लोकार्थस्फुटतामनपाकृत्य विवेचिताः सन्ति । लोकोत्तरतत्त्वप्राप्तिनामनि षोडशके ये ये तत्त्वांशास्तत्रभवता सूरिणोपनिबद्धास्तान्यथा यथाऽवगाह्य सूक्ष्मतराप्रतिमप्रतिभाप्रकाशेन विलोचनातिथीन् प्रकुर्वन्ति ये मेधाविनो भावाऽविनाभाविनस्तथातथैतदीयमनन्तगौरवत्त्वमत्युच्चा| शयत्वञ्च तैरेवाखाद्यतेतराम् । जिनमन्दिरश्च कीदृगू विधिना निर्मापयितव्यं तदधिकारोऽत्यल्पीयसा श्लोकसम्बन्धन प्रतिपादितस्ततस्पष्टीकरणञ्च जिनमन्दिरषोडशकगतमप्रमेयं प्रमोदं जनयति जनानां चेतसि । जिनबिम्बं कदा केन कीदृग् भावेन विधातव्यमित्यादिरमणीयतरभावार्थसं Jain Education in national For Private Personal Use Only wwwjanary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 230