Book Title: Shodashadhikar Prakaranam
Author(s): Haribhadrasuri, 
Publisher: Jain Shwetambar Murtipujak Sangh

Previous | Next

Page 19
________________ - ... षोडशाधिकार प्रकरणम् १०९. आगम-तन्त्रः सततं तद्वद्भक्तयादि-लिङ्ग-संसिद्धः ।.. चेष्टायां तत्स्मृतिमान् शस्त: खल्वाशयविशेषः ।।७-१३॥ ११०. एवंविधन यद्विम्बकारणं तद्वदन्ति समयविदः । - लोकोत्तरमन्यदतो लौकिकमभ्युदयसारं च ।।७- १४।। १११. लोकोत्तरं तु निर्वाणसाधकं परमफलमिहाश्रित्य । • अभ्युदयोऽपि हि परमो भवति त्वत्रानुषङ्गेण ।।७-१५।। . ११२. कृषिकरण इव पलालं नियमादत्रानुषङ्गिकोऽभ्युदयः । फलमिह धान्यावाप्तिः परमं निर्वाणमिव बिम्बात् ।।७-१६।। ।। अष्टमोऽधिकारः ॥ .. ११३. निष्पन्नस्यैवं खलु जिन-बिम्बस्योदिता प्रतिष्ठाऽऽशु । ___दश-दिवसाभ्यन्तरतः सा च त्रिविधा समासेन ।।४-१।। : ११४. व्यक्तयाख्या खल्वेका क्षेत्राख्या चापरा महाख्या च । यस्तीर्थकृयदा किल तस्य तदाद्येति समयविदः ।।८-२॥ ११५. ऋषभाद्यानां तु तथा सर्वेषामेव मध्यमा ज्ञेया । सप्तत्यधिकशतस्य तु चरमेह महाप्रतिष्ठेति ।।८- ३।। ... ११६. भवति च खलु प्रतिष्ठा निज-भावस्यैव देवतोदेशात् । ... स्वात्मन्येव परं यत्स्थापनमिह वचननीत्योः ।।८-४।। ११७. बीजमिदं परमं यत्परमाया एव समरसापत्तेः । स्थाप्येन तदपि मुख्या हन्तैषैवेति विज्ञेया ।।८- ५।। ११८. मुक्तत्यादौ तत्त्वेन प्रतिष्ठिताया न देवतायास्तु । स्थाप्ये न च मुख्येयं तदधिष्ठानाद्यभावेन ।।८- ६।। ११९. इज्यादेर्न च तस्या उपकारः कश्चिदत्र मुख्य इति । तदतत्त्वकल्पनैषा बालक्रीडासमा भवति ।।८-७।। १२०. भावरसेन्द्रात्तु ततो महोदयाजीवतास्वरूपस्य । कालेन भवति परमाऽप्रतिबद्धा सिद्धकाञ्चनता.॥८-८॥

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34