Book Title: Shodashadhikar Prakaranam Author(s): Haribhadrasuri, Publisher: Jain Shwetambar Murtipujak SanghPage 17
________________ ८ षोडशाधिकार प्रकरणम् ८५. शास्त्र - बहुमानतः खलु सचेष्टातश्च धर्मनिष्पत्तिः । पर पीडा - त्यागेन च विपर्ययात्पापसिद्धिरिव ।।६- ५ ।। ८६. तत्रासन्नोऽपि जनोऽसम्बन्ध्यपि दानमानसत्कारैः । कुशलाशयवान् कार्यो नियमाद्बोध्यङ्गमयमस्य ।। ६-६।। ८७. दलमिष्टकादि तदपि च शुद्धं तत्कारिवर्गतः क्रीतम् । उचित -क्रयेण यत्स्यादानीतं चैव विधिना तु ।। ६-७ ।। ८८. दार्वपि च शुद्धमिह यत्नानीतं देवताद्युपवनादेः । प्रगुणं सार - वदभिनवमुचैर्ग्रन्ध्यादि-रहितं च ।।६-८।। ८९. सर्वत्र शकुन - पूर्वं ग्रहणादावत्र वर्त्तितव्यमिि पूर्ण- कलशादि-रूपश्चित्तोत्साहानुगः शकुनः ।। ६-९ ।। ९०. भृतका अपि कर्त्तव्या य इह विशिष्टाः स्वभावतः केचित् । यूयमपि गोष्ठिका इह वचनेन सुखं तु ते स्थाप्याः ।।६-१०।। ९१. अतिसन्धानं चैषां कर्त्तव्यं न खलु धर्म-मित्राणाम् । न व्याजादिह धर्मो भवति तु शुद्धाशयादेव ।।६-११ ।। ९२. देवोद्देशेनैतद् गृहिणां कर्तव्यमित्यलं शुद्धः । अनिदानः खलु भावः स्वाशय इति गीयते तज्ज्ञैः ।। ६-१२ । । ९३. प्रति दिवसमस्य वृद्धिः कृताकृतप्रत्युपेक्षणविधानात् । एवमिदं क्रियमाणं शस्तमिह निदर्शितं समये ।। ६- १३ ।। ९४. एतदिह भावयज्ञः सद्गृहिष्णुं जन्म-फलमिदं परमम् । अभ्युदयाव्युच्छित्त्या नियमादपवर्ग- बीजमिति ।।६-१४।। ९५. देयं तु न साधुभ्यस्तिष्ठन्ति यथा च ते तथा कार्यम् । अक्षय- नीव्या ह्येवं ज्ञेयमिदं वंशतरकाण्डम् ।।६-१५।। ९६. यतनातो न च हिंसा यस्मादेषैव तत्रिवृत्तिफला । तदधिक- निवृत्ति-भावाद्विहितमतोऽदुष्टमेतदिति । । ६- १६ ।।Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34